SearchBrowseAboutContactDonate
Page Preview
Page 118
Loading...
Download File
Download File
Page Text
________________ प्रथम अध्ययन : पुण्डरीक 1 — इह खलु ममान्यतरद् दुःखं रोगातंकः समुत्पद्येत् अनिष्ट: अकान्तः अप्रियः अशुभः अमनोज्ञः अवनामः दुःखं नो सुखं तद् हन्त ! भयत्रातारः ! कामभोगाः ममान्यतरद् दुःखं रोगातं कं विभज्य गृह्णीत अनिष्टमकान्तमप्रियमशुभममनोज्ञमवनामम् दुःखं, नो सुखं तदहं दुःख्यामि वा शोचामि वा जूरामि वा तिप्यामि वापीड्ये वा परितप्ये वा अस्मान् मेऽन्यतराद् दुःखाद् रोगातंकात् प्रतिमोचयत अनिष्टात् अकान्तादप्रियादशुभादमोज्ञादवनामाद् दुःखान्नो सुखात् । एवमेव नो लब्धपूर्वो भवति : इह खलु कामभोगाः नो त्राणाय वा नो शरणाय वा पुरुषो वा एकदा पूर्वकामभोगान् विप्रजहाति, कामभोगाः वा एकदा पूर्वं पुरुषं विप्रजहाति, अन्यः खलु कामभोगाः अन्योऽहमस्मि तत् किंमंग पुनर्वयमन्यान्येषु कामभोगेषु मूर्च्छामः इति संख्याय खलु वयं कामभोगान् विप्रहास्यामः । अथ मेधावी जानीयाद् बहिरंगमेतद् इदमेवोपनीततरम्, तद्यथा - माता मे पिता मे भ्राता मे भगिनी मे भार्या मे पुत्राः मे दुहितारो मे प्रेष्याः मे नप्ता मे स्नुषा मे सुहृन्मे प्रियो मे सखा मे स्वजनसंग्रन्थसंस्तुता मे । एते मम ज्ञातयोऽहमप्येतेषाम् एवं स मेधावी पूर्वमेव आत्मना एवं समभिजानीयात्-इह खलु ममान्यतरद् दुःखं रोगातंको वा समुत्पद्येत अनिष्टो यावद् दुःखं, नो सुखं तद् हन्त ! भयत्रातारो ज्ञातयः ! इदं ममान्यतरद् दुःखं रोगातंकं वा पर्याददत ( विभज्य विभज्य गृह्णीत) अनिष्टं यावद् नो सुखम् । तदहं दुःख्यामि वा शोचामि वा यावत् परितप्ये अस्मान् मे अन्यतरस्माद् दुःखाद् रोगातंकात् परिमोचयत अनिष्टाद् यावन्नो सुखात् । एवमेव नो लब्धपूर्वो भवति । तेषां वाऽपि भयत्रातृणां मम ज्ञातीनामन्यतरद् दुःखं रोगातं कं समुत्पद्येत अनिष्टं यावन्नो सुखम् तद् हन्त ! अहमेतेषां भयत्राणां ज्ञातीनामिदमन्यतरद् दुःखं रोगातं कं वा पर्याददे (विभज्य गृह्णामि ) अनिष्टं वा यावन्नो सुखं, मा मे दुःख्यन्तु वा यावन्मा मे परितप्यन्तु वा अस्माद् अन्यतरस्माद् दुःखाद् रोगातंकात् परिमोचयामि अनिष्टात् यावन्नो सुखात्, एवमेव नो लब्धपूर्वो भवति । अन्यस्य दुःखमन्यो न पर्यादत्ते (विभज्य गृह्णाति ), अन्येन कृतमन्यो नो प्रतिसंवेदयति । प्रत्येकं जायते प्रत्येकं म्रियते, प्रत्येकं त्यजति, प्रत्येकमुपपद्यते, प्रत्येकं झंझा, प्रत्येकं संज्ञा, प्रत्येकं मननम्, एवमेव विद्वान् वेदना, इह खलु ज्ञातिसंयोगा नो त्राणाय, नो शरणाय वा पुरुषो वा एकदा पूर्व ज्ञातिसंयोगान् विप्रजहाति । ज्ञातिसंयोगाः वा एकदा पूर्वं पुरुषं विप्रजहति अन्ये खलु ज्ञातिसंयोगाः अन्योऽहमस्मि । किमंग ! 1 Jain Education International For Private & Personal Use Only 1 ७७ www.jainelibrary.org
SR No.003600
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra Part 02 Sthanakvasi
Original Sutra AuthorSudharmaswami
AuthorHemchandraji Maharaj, Amarmuni, Nemichandramuni
PublisherAtmagyan Pith
Publication Year1981
Total Pages498
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy