________________
महोपाध्यायश्रीविनयविजयगणिप्रणीतं [१] आनन्दलेखप्रबन्धनामकविज्ञप्तिपत्रम् ।
-~॥ चित्रचमत्कारनामा प्रथमोऽधिकारः ॥
॥ सकलभट्टारकप्रभु श्री ५ श्रीविजयाणन्दसूरिगुरुभ्यो नमः ॥ खस्ति श्रियां मन्दिरमिन्दिरालीमिन्दिन्दिरालीमिव यः पिपर्ति । रज्यत्प्रवालायितपादपद्मं पद्मं यमाहुः प्रवितीर्णपद्मम् ॥१॥ स्वस्ति श्रियः सद्मनि यत्पदाब्जे रेजे नखानां ततिरच्छकान्तिः । दिशां दशानामपि सुन्दरीणामादर्शमालेव मणिच्छटेव ॥२॥ कर्णोपकण्ठे किल कुन्तलाली कलिन्दकन्येव विभाति यस्य । खतातसन्तापमपाचिकीर्षुर्विज्ञप्तिमेषा चरिकर्ति नूनम् ॥३॥ जटाच्छटा राजति राजतीनशिरस्तटे बालकलिन्दजेव । वृषाङ्कमौलिस्थलमन्दिरायाः स्पर्द्धातिरेकान्नु सरिद्वरायाः ॥४॥ यत्कर्णयोर्नूनमनूनकेशच्छटाउँलाच्छंसति सूर्यजेति । बन्धोर्मदीयस्य नृशंसभावं, शुभोपदेशेन निवर्तयेश ! ॥५॥ यमीतमीश्यामशिरोजमालामिषादिदं वक्ति नु यस्य कर्णे । सन्तापिता पापिभिरीश ! तापी, जामिर्मदीया बत किं करोमि ! ॥ ६॥ यमीयमीशं श्रुतिमूललग्ना वक्तीति केशावलिछद्मतः किम् । समादिशेदं दुरितेन केन, प्रभोऽन्वहं खे भ्रमणं पितुर्मे ॥ ७॥ गङ्गातिगौरी हरचित्तचौरी, हसत्यसौ तात ! तरङ्गभङ्गैः । भामण्डलस्पृष्टशिरोजराजीमिषात् स्वतातं यमजामिराह ॥ ८॥ प्रतिष्ठिता भावलये यदीये, विभाति भातिप्रगुणेऽलकाली । इदं निरीक्ष्य द्रुतजाततातभ्रान्त्या किमालिङ्गति तारणेयी ॥९॥ खलेन भिन्ना हलिना हलेन, बलेन नंष्ट्वा शरणं प्रपन्ना । विभाति पृष्ठे यमुनैव यस्य, शङ्केऽलकानां विततेश्छलेन ॥ १०॥ यदीयभामण्डलमध्यलग्ना न साऽलकाली शमनस्वसेयम् । गोरत्ववाञ्छावशतस्तटाकपाकभ्रमान्मजति लजितेव ॥ ११ ॥
॥ अथ चित्रप्रक्रमः॥ जयिन् नयि जय श्रीमन् ! भाविनां भावुकप्रदः। दयादोषददीघदवकल्पो वरान्वयः ॥१२॥ (-पूर्णकलशः।) जयाय' यतते तेऽहो यावता शशभृच्छ्रियः । यता हि सततं ज्योत्स्ना यशः सज्जिन! विश्वपाः ॥१३॥ (- अर्द्धभ्रमः।)
१ प्रत्यन्तरे "कान्तिच्छटा'। २ अहो प्रभो ! यशः यावता शशभृच्छ्रियः जयाय यतते यत्सम्बन्धात् , तावता ज्योत्स्ना यता उपरता इत्यर्थः । 'यमू उपरमे' (सिद्ध०) इति वचनात् ।
वि. म.ले. १०
Jain Education Intemational
For Private & Personal Use Only
For Private & Personal Use Only
www.jainelibrary.org