________________
२०८
विज्ञप्तिलेखसंग्रह उत्साहवान लब्धजयप्रवादो येषां प्रतापस्तपनच्छलेन । विलोकितुं नष्टरिपूनिवार्य नभोऽङ्गणे भ्राम्यति नित्यमेव ॥७॥
येषां प्रदीप्तात् प्रबलप्रतापाद् गच्छन्ति नष्टा इव वादिचक्राः। जाज्वल्यमानादिव हव्यवाहाद् व्याघ्रादयः श्वापदजन्तवो हि ॥७२॥-यमलम् । श्रीमत्तपागच्छपतेः प्रभाते ये दर्शनं जङ्गमतीर्थकस्य ।
कुर्वन्ति भव्यास्त एव धन्याः पुण्यीभवन्त्यात्मनि शुद्धभावात ॥७३॥ को वर्णः कृपणास्से तु ? विद्धातोः कोऽस्ति प्रत्ययः । श्रीविजयसिंहसूरेः कः पिता ? प्रोच्यतामिह ॥७४॥ को बिभर्त्यस्तनं वक्षः१ सद्भाग्यामत्रणं वद । पूर्ववर्गस्य प्राग्वर्णः किं कामामत्रणं कवेः॥
श्रीविजयसिंहसूरेः का माता प्रोच्यतामिह ॥ ७५ ॥ तीर्थकरोपमा यस्य तद्वचोऽर्थप्ररूपणात् । श्रीविजयसिंहसूरि भव्या ! भजध्वमादरात् ॥ ७६ ॥ " लब्धिपात्रं सुरश्रेणीसेवितं तीर्थनायकम् । दितसद्भव्यसन्देहं सर्ववाङ्मयपारगम् ॥ ७७ ॥ - यमलम् । तैस्तातपादैविगतप्रमादैः प्रागल्भ्यपाथोजसहस्रपादैः । सवारिजीमूतसदृक्षनादैः स्वकीयशिष्योपरि सुप्रसादैः॥७८॥ सभासमक्षं जितवादिवादैविध्वंसिताशेषविपद्विषादैः । वरूपशोभामदनानुवादैः सद्भक्तिभाजां विलसद्रमादैः ॥७९॥ श्रीपूज्यपादैनिजकीयकायपरिच्छदारोग्यनिवेदिनी मे । प्रसादपत्री स्खशिशोः प्रसद्य प्रसादनीया प्रभुभिः प्रकृष्टैः॥८॥
श्रीतातपादपदपद्मपरप्रणामसंश्लिष्टभूमितलपाणिपुटाग्र्यमौलेः । त्रैकालिकी प्रणतिरात्मशिशोः सदैव पूज्यैः पवित्रचरणैरवधारणीया ॥८१॥ श्रीतातपादपदपावनपुण्डरीकयुग्मोपसेवनपरायणचित्तवित्तः ।
दूरस्थितोऽपि समये स्खशिशुः सदैवाचिन्त्यप्रभावगुरुभिर्ननु चिन्तनीयः ॥ ८२ ॥ वाचकशिरोऽवतंसा निजवचनातिशयरञ्जितनृपनिकराः । अवगतधर्माधर्मस्वरूपका धर्मचन्द्रनामानः ॥ ८३ ॥ विबुधवरलालकुशलाः कुशलाः पाषण्डखण्डने मुशलाः। श्रीतातपादसेवाप्तप्राधान्यगणिहस्तिविजयाह्वाः॥८४॥ ४ वरभक्तिभरवशीकृतसद्गुरुहृदयगणिऋद्धिसोमाख्याः। स्वपरमतशास्त्रसंहतितत्त्वविदो गणिउदयविजयाः॥४५॥ मुक्तिपुरमार्गसाधनतत्परगणिमुक्तिविजयनामानः । दर्शनतर्जितनलिना दर्शनविजया गणिप्रवराः॥८६॥ सत्यवचनसंलीना गणिसिन्धुरसत्यविजयाह्वाः । शतदलकोमलतनवो गणयो वरसिद्धिविजयनामानः ॥ ८७॥ मनुजनलिनदिनमणयो गणयो रविविजयनामानः । धिषणासञ्जितधिषणा गणयो वरविजयसोमाह्वाः॥ ८८॥
अन्येऽपि साधवो ये श्रीमद्गुरुपादचरणभक्तिभृतः । तेषां नत्यनुनतिके श्रीतातैर्मम ननु ज्ञाप्ये ॥ ८९॥ 2 किञ्चेहत्या गणयो रविवर्द्धननामधारिणो मुनयः । धनवर्द्धननामानः सकलः सङ्घश्च परमतरभक्त्या ॥ ९० ॥ इत्येते प्रणमन्ति कृताञ्जलयोऽवनितलनिहितशिरोब्जाः । श्रीतातपादनाम्ना नम्यन्ते किञ्च जिनपतयः ॥ ९१ ॥ परभृतवन्माकन्दं चलचञ्चुरिव तपसं दिवापुष्टम् । द्वन्द्वचरवदनुदिवसं श्रीतातं स्मरति बालोऽयम् ॥ ९२ ॥ औचित्यमात्रार्थसुबिन्दुवर्णसंमुक्तमुक्तं यदवर्णभावात् । किञ्चिद् भवेन्मातृमुखेन तातैः क्षन्तव्यमेतच्छमतारसाप्तैः ॥९॥
पोषबहुलदशम्यां लिखिता बुधवासरे । श्रीतातपादविज्ञप्तिरिति भूयाच्छ्रेयसे सततम् ॥ ९४ ॥
॥ संवत् १७०३ वर्षे श्रीविजयसिंहसूरीश्वराणामयं लेखः ॥
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org