________________
लावण्यांवजयगाणप्राषता विज्ञाप्तका
१९७
उपधानवाहनादि श्रीयोगोद्वाहनादि च । सानन्दनन्दिमानन्दि पाक्षिकापारणानि च ॥४६॥ इत्यादिसौकृतकृत्यं निष्प्रत्यूहं प्रवर्त्तते । तथा परंपरायाते सर्वपर्वशिरोमणौ ॥४७॥ श्रीमत्प!षणापर्वण्यतुच्छोत्सवहारिणि । सप्तदशभेदपूजाखात्रादीनां प्रवर्तनम् ॥४८॥ सक्षणैः क्षणनवकैः कल्पसूत्रानुवाचनम् । पूजाप्रभावनापूर्वदुष्टदुष्कृतयाचनम् ॥ ४९ ॥ साधर्मिकजनाकण्ठपोषणं पुण्यजोषणम् । भूरिवित्तप्रदानेनानेकयाचकतोषणम् ॥ ५० ॥ पक्षक्षपणकानेकदस्तपस्तपसां पुनः। तपनं श्रीजिनगृहोल्लसत्खेलकनर्तनम् ॥५१॥ हस्त्यश्वमनुजयानाद्याऽऽडम्बरपुरस्सरम् । अनेकातोद्यनिर्घोषैश्चैत्ययात्राविधापनम् ॥ ५२॥ इत्येवं धर्मकर्माणि सशर्माणि महामहः । निरन्तरमजायन्त संजायन्तेऽधुनापि च ॥ ५३॥ नमन्नेकमहीपालाभ्यर्चितांहिसरोरुहाम् । श्रीमतां तातपादानां प्रसादोदयतोऽपरम् ॥ ५४॥
यस्योल्लसद्भालविशालपट्ट, सदष्टमीकैरवबन्धुरेषः ।
मन्येऽभजद् विष्णुपदं किमीक्ष्य, श्रीमत्तपागच्छपतिः स जीयात् ॥ ५५॥ यदीयनेत्रोपमतामवाप्तुं नीलोत्पलानीव किमाचरन्ति । तपांसि गत्वा सरसीवरेषु श्रीमत्तपागच्छपतिः स जीयात् ॥५६॥
यदीयवक्त्राभिनवेन्दुमिन्दुः, स्वतोऽधिकज्योतिरितीव चित्ते ।
विचिन्त्य किं क्षीणतनुर्बभूव, श्रीमत्तपागच्छपतिः स जीयात् ॥ ५७ ॥ यदीयवक्वाम्बुजमम्बुजाली निरन्तरस्मेरमिवावधार्य । त्रपाभरात् किं विजने जगाम श्रीमत्तपागच्छपतिः स जीयात् ॥५८ ॥ यस्याधरस्पर्धनयेव नूनं नवप्रवालं किमचेतनत्वम् । बभाज विश्वाद्भुतकृच्चरित्रः श्रीमत्तपागच्छपतिः स जीयात् ॥५९॥
संपूर्णशीतांशुकलाकलापविराजमानानपि मौक्तिकवजान् ।
यद्दन्तपक्लिर्नितरां जिगाय श्रीमत्तपागच्छपतिः स जीयात् ॥ ६॥ आहार्यमाधुर्यभरातिहृद्यं वचोमृतं यस्य निपीय भव्याः। सौहित्यमापुर्वचनातिरेकं श्रीमत्तपागच्छपतिः स जीयात् ॥६॥ पीत्वा कणेहत्य यदीयवाणीसुधारसं कर्णपुटैः सकर्णाः। सुधा मुधैवेति वितर्कयन्ति श्रीमत्तपागच्छपतिः स जीयात्॥६२॥ 20 सितोपला काचघटी निवेशमिषादिवातङ्कभरान्ननाश । यदीयवाणीमधुरत्वतर्जिता श्रीमत्तपागच्छपतिः स जीयात् ॥६॥ यदीयकण्ठेन जितः किमेषो नष्वेव शङ्ख शरणं चकार । करारविन्दं मधुसूदनस्य श्रीमत्तपागच्छपतिः स जीयात् ॥६॥
यन्नासिका दीपशिखोपमाना शस्ता तिरस्कारमकारि नूनम् ।
अपि स्फुरच्चञ्चुपटं सुकीरं श्रीमत्तपागच्छपतिः स जीयात् ॥ ६५॥ समग्रसत्त्वानुनयावबोधपरागपूर्ण हृदयारविन्दम् । विराजते यस्य वरेण्यवर्णं श्रीमत्तपागच्छपतिः स जीयात्॥६६॥
अनन्यसामान्यबलं च यस्योद्दण्डं भुजादण्डमिवावलोक्य ।
अहीश्वरोऽधस्तलमाविवेश श्रीमत्तपागच्छपतिः स जीयात् ॥ ६७ ॥ यस्याद्भुतश्रीकमवेक्ष्य देहं ममेह किं कृत्यमितीव मत्वा । स्वर्ण पपात ज्वलदग्निकुण्डे श्रीमत्तपागच्छपतिः स जीयात्॥६८॥
नितान्तमासेचनकं निरीक्ष्य यद्दर्शनं नेत्रततिर्जनानाम् ।
बिभर्ति विश्वे कमपि प्रमोदं श्रीमत्तपागच्छपतिः स जीयात् ॥ ६९ ॥ सन्नप्रभूशक्रशतोत्तमाङ्गकोटीररत्नातिनीरधौतम् । यत्पादपद्मं प्रयति स्म लक्ष्मीः श्रीमत्तपागच्छपतिः स जीयात् ॥७॥
विधाय रूपत्रितयं यदीया बभ्राम कीर्तिः सुरसिन्धुदम्भात् । मन्ये किमन्वेष्टुमिव त्रिविश्वं श्रीमत्तपागच्छपतिः स जीयात् ॥ ७१॥ यद्धैर्यगाम्भीर्यगुणेन तर्जितो रत्नाकरोऽप्यम्बुनिधी रसातलम् । जगाम किं भीतिभरादिवायं श्रीमत्तपागच्छपतिः स जीयात् ॥७२॥
Jain Education Intemational
For Private & Personal Use Only
For Private & Personal Use Only
www.jainelibrary.org