________________
13
25
तपागच्छाधिनायकभट्टारक श्रीविजयप्रभसूरिं प्रति पं० श्रीआगमसुन्दरगणिलिखिता
[१९] - विज्ञप्ति का
स्वस्तिश्रीपदपङ्कजामलयुगं भेजे यदीयं मुदा, प्रोज्झ्य स्वं भवनं कुकण्टकयुतं तन्मञ्जिमानं दधत् । शश्वत्स्मेरतमश्रिया भवति भृत्कृत्यात्तमामन्वहं बिभ्राणां भवतां लतां स तमसां स्फातिं स्फुरन्मूर्त्तिः ॥ १ ॥ चन्द्रो यदंहियुगलं समुपैति किं स्म, विज्ञीप्सयेति जगदीशितरं कदम्भात् । दूषणं व्यपनय स्वजगत्प्रसिद्धं, जेनीयतां स भवतां रजसां वितानम् ॥ २ ॥ के स्युर्न यत्क्रमपयोजपरिष्ठितोऽत्र, विश्वे कलङ्ककलुषाधिकलङ्ककायाः । लक्ष्मच्छलात् किमु विधुर्वरिवस्यतीति, यत्पादद्वन्द्वमनिशं स शिवाय वोऽस्तु ॥ ३॥
केषां न युग्ममभवत् क्रमयोर्यदीयं, तत्पक्षताशरणमत्र कलङ्कजातम् । मत्वेत्यदो विधुरशिश्रियदङ्कदम्भाद्, भूयात्तमां स भवतां विभुताविभूत्यै ॥ ४ ॥ व्यालग्य यत्क्रमयुगं तपनोऽवतस्थे, लक्ष्मोपधेर्मनसि कृत्य कृतीति मन्ये । लग्धिः कुतोऽस्य पुनरत्ररजोभिस्यैर्भद्राय मेऽपि विकलङ्कयतः स वः स्तात् ॥ ५ ॥ लो विभूय सकलङ्क इति द्विजेोऽवज्ञातिमेष किमु लान्छनदम्भतोऽत्र । यत्पादपद्ममनिशं परिबाभजीति, श्रेयस्ततिं स भवतामवतन्तनी ॥ ६ ॥ पादद्वये विकचवारिजमञ्जिमानं, मोमूषतीह कलहंसितमिन्दुतोच्चैः । यस्याङ्कदम्भत उदित्वरकान्तिकान्ते, संजर्हरीतु भवतां वृजिनानि सोऽर्हन् ॥ ७ ॥ यत्पादचारुनखकान्तरुचेह चन्द्रो, निर्माति भक्तिमनिशं व्ययमूषितश्रीः । तलिप्सयेव वरलाञ्छनदम्भतोऽयं, मालां स वो मद्दयतान्महसां महस्वी ॥ ८ ॥ बिभ्राणमैहिक सुखांइतिवित्ततां तां खर्दु विहाय भजतो भविकान् यदंहयोः । वीक्ष्य द्वयं तदुभयप्रदमाश्लिषद् ग्लौर्लक्ष्मोपधेः किमु स वः सुषमां वितीर्यात् ॥ ९ ॥ लक्ष्मच्छलाद् विधुरवाप्य न किं यदजयोः, स्पर्शं युगस्य भपतित्वमदादधीन्न । विश्वेऽत्र मुत्ततिलसत्तममूर्त्तिकान्तिः, संशोशुषीतु भवतां स कुपङ्कपङ्कम् ॥ १० ॥ लक्ष्मच्छलाद्यदतुलांहिपयोजयुग्म संस्पर्श भूतसुकृतत्रजपूतगात्रः ।
ईशेन किं द्विजपतिर्बिभरांबभूवे, मौलौ निजे स भवतां शिवतातिरस्तु ॥ ११ ॥ यत्पादपद्ममभयप्रदमेष चन्द्रो, भीतोऽङ्कदम्भत इतः शरणीचकार । स्वर्भात विघृणकालकरालकायात्, किं नो ददातु विभयः स मनीषितं वः ॥ १२ ॥ आश्लिष्यदेष विधुरकमिषाद् यदहि- पद्मं सदा स्मितसरोभवकान्तकान्तिम् । दृश्यां दिक्षुरिव जात्वनवेक्षितां तां, नीयत्तमां स भवतां क्षयतामजन्यम् ॥ १३ ॥ लक्ष्मच्छलाद् विधुरदीधरदेष किं नो, यत्पद्युगोपरि सुसून कलापकान्तिम् । पश्यत्तमाम्बकमुदं सततं नयन्तीमर्हन् स लम्भयतु तानवमेन उद्यम् ॥ १४ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org