________________
श्रीविजयसिंहसूरिप्रेषिता विज्ञप्तिका
१४९ इत्थं सतां चित्रकरैः सुचित्रैः, स्तुवन्ति साध्यासुरमानवौघाः। यान् पूज्यपादान् सुरराजपूज्यान् , शिवाप्तये वाञ्छितऋद्धिवृद्ध्यै ॥ २७६ ॥ गतप्रमादैरपि सत्प्रमादैर्वक्त्राब्जसन्तर्जितशीतपादैः । तैस्तातपादैरवधारणीयोपवैणवं भक्तिभृतो नतिर्मे ॥ २७७ ॥ प्रमोदपात्री पृथुहर्षदात्री, सम्यग्विधात्री हितहेतुमात्री।
कल्याणकर्ती निखिलार्तिही, कृपैकपुत्री गुणपतिध: ॥ २७८ ॥ इत्यादिगुणविशिष्टा सौवाङ्गारोग्यकथनचारुतरा । पूज्यैः प्रसादनीया त्वरितं प्रतिपत्रिसितपत्री ॥ २७९ ॥ किञ्च ममानुप्रणतिः प्रसादनीया प्रसादमासाद्य । श्रीतातचरणपङ्कजसेवनधन्यात्मनां शमिनाम् ॥ २८० ॥ तत्रत्यानां वाचककुलकोटिकिरीटरत्नतुल्यानाम् । निरवद्यहृद्यविद्याविशारदानां विमलधाम्नाम् ॥ २८१ ॥ वैयाकरणसुतार्किकसैद्धान्तिकपतिलब्धशोभानाम् । परमोपकृतिरतानां विद्याधनदानधनदानाम् ॥ २८२ ॥ श्रीतातपादपादाम्बुजसौरभलीनचित्तवृत्तीनाम् । श्रीकुशलसागराणां सद्धर्मविधानकुशलानाम् ॥ २८३ ॥ लाभाणन्दबुधानां प्रशस्तसत्तर्कतर्कनिपुणानाम् । श्रीपूज्यपादसेवाविधानसंलब्धश्लोकानाम् ॥ २८४ ॥ मानादिमविजयानां मुनिजनशिक्षाक्षणैकदक्षाणाम् । मुनिचन्दविजयनाम्नां विधुहाससमानगमनानाम् ॥२८॥
(क्षे)मयुतविजयनाम्नां सुलेखलिखनादिकृत्यदक्षाणाम् । सदुदयविजयगणीनां काव्यरसास्वादविदुराणाम्॥२८६ अभिरामरामनामकविजयगणीनामनिन्द्यवृत्तीनाम् । सुमतिमतिविजयनानामनेकमुनिकोटिशस्यानाम् ॥२८७॥ 15 चारित्रसागराणां दर्शनचारित्रसद्गुणधराणाम् । कल्याणसागराणां कल्याणसमानकान्तिभृताम् ॥ २८८॥ नययुतनयविजयानां प्रभुपादाम्भोजभजनचित्तानाम् । कर्पूरपूरचञ्चलयशस्विकर्पूरविजयानाम् ॥ २८९ ॥ गणिहीरसागराणां हीरोज्वलहारि[सु] विशदरदानाम् । सुदयाद्यपदाभ्यर्थितसागरंपदनामधेयानाम् ॥ २९० ॥ सुविनीतविजयनाम्नां सुविनेयविनेयपतिप्रतिष्ठानाम् । कृष्णपदयुक्तविजयाह्वानानां तातकृत्यविदाम् ॥२९१॥ कमलाणन्दगणीनां कोमलकमलाभवदनकमलानाम् । विजयाणन्दमुनीनां पठनोद्योगप्रधानानाम् ॥ २९२ ॥ ॥ मुनिविजयसागराणां सारस्वतपाठपठनचञ्चूनाम् । सुविशालसागराणां मुनिविस्मयकारिवचनानाम् ॥२९३॥ शान्तेर्विजयमुनीनां चीवरवरकोशरक्षणपराणाम् । लालादिमविजयानां मुमुक्षुसन्तोषणपराणाम् ॥ २९४ ॥ सुप्रीतप्रीतिसागरनामकदमिनां गणित्वयुक्तानाम् । शैक्षकउत्तमसागरनाम्नामाह्लादितान्यधियाम् ॥ २९५ ॥ षष्ठाष्टमादितपसो विधायकानां सुपार्श्वविजयानाम् । गणिवरमतिविजयानां गोचरविधिसावधानानाम् ॥२९६॥ मुनिगजसागरनाम्नां जयादिविजयाभिधानसाधूनाम् । रत्नत्रयसत्यापनकुशलानां रत्नकुशलानाम् ॥२९७॥ 25 चाम्पश्री-प्रेमश्री-सहजश्रीप्रभृतिसाधुसाध्वीनाम् । नत्यनुनती प्रसाद्ये अत्रत्यानां मुनिजनानाम् ॥ २९८॥
प्रीतेर्विमलबुधानां रोहाभिधग्रामवेदमासकृताम् । लालकुशलाख्यविदुषां शिष्याध्यापनप्रवीणानाम् ॥ २९९ ॥ गणिहस्तिविजयनाम्नां ऋद्धिसोमाभिधानशमिनां च । सत्यादिमविजयानां सिद्धर्विजयाभिधानानाम् ॥ ३०० ॥ दीपाद्विजयमुनीनां गणिदर्शनविजयसंज्ञकयतीनाम् । उदयविजयाभिधानां सुमुक्तिपदयुक्तविजयानाम् ॥ ३०१॥
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org