________________
विधिप्रपा ।
९८
इति सकलीकरणं । ततः - 'ॐ नमो अरिहंताणं, ओं नमो सिद्धाणं, ओं नमो आयरियाणं, ओं नमो उवज्झायाणं, ओं नमो सबसाहूणं, ओं नमो आगासगामीणं, ओं हः क्षः नमः ' - इति शुचिविद्या । अनया त्रि-पञ्च- सप्तवारान् आत्मानं परिजपेत् । ततः स्त्रपनकारान् अभिमत्र्य अभिमन्त्रितदिशाबलिप्रक्षेपणं धूमसहितं सोदकं क्रियते । 'औँ ह्रीं क्ष्वीं सर्वोपद्रवं बिम्बस्य रक्ष रक्ष स्वाहा - इत्यनेन बल्यभिमन्त्रणम् । ततः कुसु· मांजलिक्षेपः। नमोऽर्हत्सिद्धाचार्योपाध्यायसर्वसाधुभ्यः ।
I
अभिनव सुगन्धिविकसितपुष्पौघभृता सुधूपगन्धाढ्या । -बिम्बोपरि निपतन्ती सुखानि पुष्पाञ्जलिः कुरुताम् ॥ १ ॥
तदनन्तरं आचार्येण मध्याङ्गुलीद्वयोर्वीकरणेन बिम्बस्य तर्जनीमुद्रा रौद्रदृष्ट्या देया । तदनन्तरं वामकरे जलं गृहीत्वा आचार्येण प्रतिमा आच्छोटनीया । ततश्चन्दनतिलकं पुष्पैः पूजनं च प्रतिमायाः । 10 ततो मुद्गरमुद्रादर्शनम्, अक्षतभृतस्थालदानम्, वज्रगरुडादिमुद्राभिर्बिम्बस्य चक्षूरक्षामन्त्रेण 'औँ ह्रीं क्ष्वीं ० ' इत्यादिना कवचं करणीयम्, दिग्बन्धश्ध अनेनैव । ततः श्रावकाः सप्तधान्यं सण-लाज - कुलत्थ-यव- कंगुउडद-सर्षपरूपं प्रतिमोपरि क्षिपन्ति । ततो जिनमुद्रया कलशाभिमन्त्रणम् । जलाद्यभिमन्त्रणमन्त्राश्चैते - औँ नमो यः सर्व शरीरावस्थिते महाभूते आ ३ आप ४ ज ४ जलं गृह्ण गृह्ण स्वाहा । जलाभिमत्रणमन्त्रः । ओं नमो यः शरीरावस्थिते पृथु पृथु गन्धान् गृह्ण गृह्ण खाहा । गन्धाधिवासनमन्त्रः । 15 सर्वौषधिचन्दनसमालभनमन्त्रश्च - ओं नमो यः सर्वतो मे मेदिनि पुष्पवति पुष्पं गृह्ण गृह्ण स्वाहा । पुष्पाभिमन्त्रणमत्रः । ओं नमो यः सर्वतो बलिं दह दह महाभूते तेजाधिपति धुधु धूपं गृह गृह स्वाहा । धूपामिमन्त्रणमन्त्रः । ततः पञ्चरलकषायग्रन्थिर्बिम्बस्य दक्षिणकराङ्गुल्यां बध्यते ।
ततः सूत्रधारेणैककलशेन प्रतिमायां स्त्रापितायां पञ्चमङ्गलपूर्वकं मुद्रामन्त्राधिवासितैर्जलादिद्रव्यैगतितूर्यपूर्वकं सकुशलस्त्रात्रकारैः स्नात्रकरणमारभ्यते । तद्यथा, सहिरण्यकलशचतुष्टयस्नानम् १ सुपवित्रतीर्थनीरेण संयुतं गन्धपुष्पसन्मिश्रम् ।
पततु जलं बिम्बोपरि सहिरण्यं मन्त्रपरिपूतम् ॥ २ ॥ सर्वस्नात्रेष्वन्तरा शिरसि पुष्पारोपणं चन्दनटिक्ककं धूपोत्पाटनं च कर्त्तव्यम् । ततः प्रवालमौक्तिकसुवर्णरजतताम्रगर्भ पञ्चरलजलखानम् २
20
25
30
35
नानारत्नौघयुतं सुगन्धिपुष्पाधिवासितं नीरम् । पतताद् विचित्रवर्ण मन्त्राख्यं स्थापनाबिम्बे ॥ ३ ॥ ततः प्लक्षअश्वत्थउदुम्बरशिरीषवटांतरच्छल्लीकषायस्नानम् ३– लक्षाश्वत्थोदुम्बरशिरीषछल्यादिकल्क सन्मृष्टे । बिम्बे कषायनीरं पततादधिवासितं जैने ॥ ४ ॥ ततो गजवृषभविषाणोद्धृतपर्वतवल्मीकमहाराजद्वारनदीसङ्गमो भयतटपद्मतडागोद्भवमृत्तिकास्तानम् ४ - पर्वत सरोनदीसंगमादिमृद्भिश्च मन्त्रपूताभिः । उद्वृत्त्य जैनबिम्बं स्नपयाम्यधिवासनासमये ॥ ५॥ ततश्छगणमूत्रघृतदधिदुग्धदर्भरूपगवांगदर्भोदकेन पञ्चगव्यस्नानम् ५जिनबिम्बोपरि निपततु घृतदधिदुग्धादिद्रव्यपरिपूतम् । दर्भोदकसन्मित्रं पञ्चगवं हरतु दुरितानि ॥ ६ ॥ सहदेवी -वला- शतमूली - शतावरी - कुमारी - गुहा- सिंही व्याघ्रीसदौषधिस्नानम् ६.
Jain Education International
For Private & Personal Use Only
1
www.jainelibrary.org