________________
अध्ययनं -१, उद्देशकः - [नि. १४२ ]
६९
बुद्धाईवि सुरणया वुच्चन्ते नायपडिवक्खो ॥
वृ.द्वयोः पूरणं द्वितीयं द्वितीयं च तद्वयं च द्वितीयद्वयं हेतुस्तच्छुद्धिश्च, इदं च प्रागुक्तद्वयापेक्षया द्वितीयामुच्यते, तस्यायं विपक्ष :- इह सुरैः पूज्यन्ते यज्ञयाजिनोऽपीति, इयमत्र भावनायज्ञयाजिनो हि मङ्गलरूपा न भवन्त्यथ च सुरैः पूज्यन्ते ततश्च सुरपूजितत्वमकारणमिति, एष हेतुविपक्ष:, तथा अजितेन्द्रियाः सोपधयश्च यतस्ते वर्तन्ते अतोऽनेनैव ग्रन्थेन 'धर्मस्थाने स्थिताः परम' इत्यादिकाया हेतुविभक्तेरपि विपक्ष उक्तो वेदितव्य इति । उदाहरणविपक्षमधिकृत्याहबुद्धादयोऽप्यादिशब्दात्कापिलादिपरिग्रहः, ते किम् ? - 'सुरनता' देवपूजिता 'उच्यते' भण्यन्ते तच्छासनप्रतिपन्नैरिति ज्ञातप्रतिपक्ष इति गाथार्थः ॥
आह- ननु दृष्टान्तमुपरिष्टाद्वक्ष्यति, एवं ततश्च तत्स्वरूप उक्ते तत्रैव विपक्षस्तत्प्रतिषेधश्च वक्तुं युक्तः तत्किमर्थमिहविपक्षः तत्प्रतिषेधश्चाभिधीयते ?, उच्यते, विपक्षसाम्यादधिकृत एव विपक्षद्वारे लाघवार्थमभिधीयते, अन्यथेदमपि पृथग्द्वारं स्यात्, तथैव तत्प्रतिषेधोऽपि द्वारान्तरं प्राप्नोति, तथा च सति ग्रन्थगौरवं जायते, तस्माल्लाघवार्थमत्रैवोच्यत इत्यदोषः ।
आह- "दिट्ठतो आसंका तप्पडिसेहो" त्ति वचनात् उत्तरत्र दृष्टान्तमभिधायपुनराशङ्कां तत्प्रतिषेधं च वक्ष्यत्येव, तदाशङ्का च तद्विपक्ष एव, तत् किमर्थमिह पुनर्विपक्षप्रतिषेधावभिधीयते ?, उच्यते, अनन्तरपरम्पराभेदेन दृष्टान्तद्वैविध्यख्यापनार्थम्, यः खल्वनन्तरमुक्तोऽपि परोक्षत्वादागमगम्यत्वाद्दान्तिकार्थसाधनायालं न भवति तत्प्रसिद्धये चाध्यक्षसिद्धो योऽन्य उच्यते स परम्परादृष्टान्तः, तथा च तीर्थकरांस्तथा साधूँश्च द्वावपि भिन्नावेवोत्तरत्र दृष्टान्तावभिधास्येते, तत्र तीर्थकृल्लक्षणं दृष्टान्तमङ्गीकृत्येह विपक्षप्रतिषेधावुक्तौ सार्धंस्त्वधिकृत्य तत्रैवाशङ्कातत्प्रतिषेधौ दर्शयिष्यते इत्यादोषः । स्यान्मतं प्रागुक्तेन विधना लाघवार्थमनुक्ते एव दृष्टान्ते उच्यतां कामम्, इहैव दृष्टान्तविपक्षस्तत्प्रतिषेधश्च स एव दृष्टान्तः किमित्युत्तरत्रोपदिश्यते ? येन हेतविभक्तेरनन्तरमिहैव न भण्यते, तथाहि - अत्र दृष्टान्ते भण्यमाने प्रतिज्ञादीनामिव द्विरूपस्यापि दृष्टान्तस्यार्हत्साधुलक्षणस्य एतावेव विपक्षतत्प्रतिषेधावुपपद्येते, ततश्च साधुलक्षणस्य दृष्टान्तस्याशङ्कातत्प्रतिषेधावुत्तारत्र न पृथग् वक्तव्यौ भवतः, तथा च सति ग्रन्थलाघवं जायते, तथा प्रतिज्ञाहेतूदाहरणरूपाः सविशुद्धकास्त्रयोऽप्यवयवाः क्रमेणोक्ता भवन्तीति, अत्रोच्यते, इहाभिधीयमाने दृष्टान्तस्येव प्रतिज्ञादीनमपि प्रत्येकमाशङ्कातत्प्रतिषेधो वक्तव्यौ स्तः, तथा च सत्यवयवबहुत्वं, दृष्टान्तस्य वा प्रतिज्ञादीनामिव विपक्षतत्प्रतिषेधाभ्यां पृथगाशङ्कातत्प्रतिषेधौ न वक्तव्यौ स्याताम्, एवं सति दशावयवा न प्राप्नुवन्ति, दशावयवं चेदं वाक्यं भङ्गन्तरेण प्रतिपिपादयिषितम्, अस्यापि न्यायस्य प्रदर्शनार्थम्, अत एव यदुक्तं 'साधुलक्षणदृष्टान्त-स्याशङ्कातत्प्रतिषेधावुत्तरत्र न पृथग् वक्तव्यौ स्याता' मित्यादि तदपाकृतं वेदितव्यम्, इत्यलं प्रसङ्गेन । एवं प्रतिज्ञादीनां प्रत्येकं विपक्षोऽभिहितः, अधुनाऽयमेव प्रतिज्ञादिविपक्षः पञ्चमोऽवयवो वर्तत इत्येंद्दर्शयन्निदमाह-
नि. [१४३ ] एवं तु अवयवाणं चउण्ह पडिवक्खु पंचमोऽवयवो ।
एत्तो छट्टोऽवयवो विवक्खपडिसेह तं वोच्छं ॥
वृ.'एवम्' इत्ययम्, एव(वं) कारउपप्रदर्शने, तुरवधारणे, अयमेव 'अवयवानां' प्रमाणाङ्ग
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org