________________
अध्ययनं-१, उद्देशकः - [नि.१३६]
- धारेंति बंभचेर संजमयंति कसाए य॥ वृ.कायं वाचं मनश्चेन्द्रियाणि च पञ्च दमयन्ति, तत्र कायेन सुसमाहितपाणिपादास्तिष्ठन्ति गच्छन्ति वा, वाचा निष्प्रयोजनं न बुवते प्रयोजनेऽप्यालोच्य सत्त्वानुपरोधेन, मनसा अकुशलमनोनिरोधं कुशलमनउदीरणं च कुर्वन्ति, इन्द्रियाणि पञ्च दमयन्ति इष्टानिष्टविषयेषु रागद्वेषाकरणेन, पञ्चेति साङ्खयपरिकल्पितैकादशेन्द्रियव्यच्छेदार्थम्, तथा च वाक्पाणिपादपायूपस्थमनांसीन्द्रियाणि तेषामिति, धारयन्ति ब्रह्मचर्य, सकलगुप्तिपरिपालनात्, तथा संयमयन्ति कषायाँश्च, अनुदयेनोदयविफलीकरणेन चेति गाथार्थः।। नि.[१३७] जंच तवे उज्जुत्ता तेनेसिं साहुलक्खणं पुन।
तो साहणोत्ति भण्णति साहवो निगमनं चेयं। वृ.यच्च तपसि' प्राग्वर्णितस्वरूपे, किम्?-'उद्युक्ता' उद्यता: तेन कारणेनैषां साधुलक्षणं 'पूर्णम्' अविकलम्, कथम्?-अनेन प्रकारेण साधयन्त्यपवर्गमिति साधवः, यत-श्चैवं ततः साधव एव भण्यन्ते साधवो, नचरकादय इति, निगमनंचैतदिति गाथार्थः। इत्थमुक्तं दशावयवम्, प्रयोगत्वेवं वृद्धा दर्शयन्तिअहिंसादिलक्षणधर्मसाधकाः साधव एव, स्थावरजङ्गमभूतोपराधपरिहारित्वात्, तदन्यैवंविधपुरुषवत्, विपक्षो दिगम्बरभिक्षुभौतादिवत्, इह ये स्थावरजङ्गमभूतौपरोधपरिहारिणस्ते उभयप्रसिद्धैवंविधपुरुषवदहिंसादिलक्षणधर्मसाधका दृष्टाः, तथा च साधवः स्थावरजङ्गमभूतोपरोधपरिहारित्वात्तेऽहिंसादिलक्षणधर्मसाधकाः साधवएवेति निगमनम्, पक्षादिशुद्धयस्तु निदर्शिता एवेति न प्रतन्यन्ते।। एवमर्थाधिकारद्वयवशात् पञ्चावयवदशावयावाभ्यां वाक्याभ्यां व्याख्यातमध्ययनमिदम्, इदानीं भूयोऽपि भङ्गयन्तरभाजा दशावयवेनैव वाक्येन सर्वमध्ययनं व्याचष्टे नियुक्तिकार:नि.[१३८] ते उइति विभत्ती विवक्खपडिसेहो।
दिटुंतो आसंका तप्पडिसेहो निगमनं च। वृ. ते इति अवयवाः, तुः पुनःशब्दार्थः, तु पुनरमी प्रतिज्ञादयः-तत्र प्रतिज्ञानं प्रतिज्ञावक्ष्यमाणस्वरूपेत्येकोऽवयवः, तथा विभजनं विभक्तिः-तस्याविषयविभागकथनमिति द्वितीयः, तथा हिनोतिगमयति जिज्ञासितधर्मविशिष्टानानिति हेतुस्तृतीयः, तथा विभजनं विभक्तिरिति पूर्ववच्चतुर्थः, तथा विसदृशः पक्षो विपक्षः साध्यादिविपर्यय इति पञ्चमः, तथा प्रतिषेधनं प्रतिषेधः विपक्षस्येति गम्यते इत्ययं षष्ठः, तथा दृष्टमर्थमन्तं नयतीति दृष्टान्त इति सप्तमः, तथा आशङ्काप्रतिषेध इति नवमः, तथा निश्चितं गमनं निगमनं निश्चितोऽवसाय इति दशमः, चशब्द उक्तमुच्चयार्थ इति गाथासमासार्थः॥व्यासार्थं तु प्रत्यवयवं वक्ष्यति ग्रन्थकार एव, तथा चाहनि.१३९] धम्मो मंगलमुक्किटुंति पइन्नाअत्तवयणनिद्देसो।
सोय इहेव जिनमए नन्नत्थ पइन्नपविभत्ति। वृ.धर्मो मङ्गलमुत्कृष्ट मिति पूर्ववत् इयंप्रतिज्ञा, आह-केयं प्रतिज्ञेति?, उच्यते, 'आप्तवचननिर्देश' इति तत्रासः-अप्रतारकः, अप्रतारकश्चाशेषरागादिक्षयाद्भवति, उक्तं च
_ "आगमो ह्याप्तवचनमाप्तं दोषक्षयाद्विदुः। वीतरागोऽनृतं वाक्यं, नब्रूयाद्धत्वसंभवात्॥"
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org