________________
अध्ययनं-१, उद्देशकः - [नि.१२५] मू.(५) महुगारसमा बुद्धा, जे भवंति अनिस्सिया।
नानापिंडरया दंता, तेन वुच्चंति साहुणो। तिबेमि वृ. 'मधुकरसमा' भ्रमरतुल्याः बुध्यन्ते स्म वृद्धा-अधिगततत्त्वा इत्यर्थः, क एवंभूता - इत्यत आह-ये भवन्ति भ्रमन्ति वा अनिश्रिताः' कुलादिष्वप्रतिबद्धा इत्यर्थः, अत्राह- .. नि.[१२६] अस्संजएहि भमरेहिं जइ समा संजया खलु भवंति।
एवं(यं) उवमं किच्चा नूनं अस्संजयासमणा।। वृ. 'असंयतैः' कुतश्चिदप्ययनिवृत्तैः, 'भ्रमरैः' षट्पदैः यदि 'समाः' तुल्याः 'संयता:' साधवः, खल्विति समा एव भवन्ति, ततश्चासंज्ञिनोऽपिते, अत एवैनामित्थंप्रकारामुपमां कृत्वा इदमापद्यते-नूनमसंयताः श्रमणा इति गाथार्थः।। एवमुक्ते सत्याहाचार्य:-एतच्चायुक्तं, सूत्रोक्तविशेषणतिरस्कृतत्वात्, तथा च बुद्धग्रहणादसंज्ञिनो व्यवच्छेदः, अनिश्रितग्रहणाच्चासंयतत्वस्येति। नियुक्तिकारस्त्वाहनि.[१२७] उवमाखलु एस कया पुव्वुत्तादेसलक्खणोवणया।
अनिययवित्तिनिमित्तं अहिसअनुपालणट्ठाए॥ वृ-व्याख्या-उपमा खलु 'एषा' मधुकरसमेत्वादिरूपा कृता 'पूर्वोक्तात्' पूर्वोक्तेन देशलक्षणोपनयाद' देशलक्षणोपनयेन, यथा चन्द्रमुखी कन्येति, तृतीयार्थचेहपञ्चमी, इयं चानियतवृत्तिनिमित्तं कृता, अहिंसानुपालनार्थम्, इदं च भावय(यिष्य)त्येवेति गाथार्थः॥ नि.[१२८] जहदुमगणा उतह नगरजणवया पयणपायणसहावा।
जह भमरा तह मुणिणो नवरि अदत्तं न भुंजंति ।। वृ.यथा'द्रुमगणा:' वृक्षसङ्घाताः स्वभावत एव पुष्पफलनस्वभावाः तथैव 'नगरजनपदा' नगरादिलोकाः स्वयमेव पचनपाचनस्वभावा वर्तन्ते, यथा भ्रमरा इति, भावार्थं वक्ष्यति, तथा मुनयो नवरम-एतावान्विशेषः-अदत्तं स्वामिभिर्न भुञ्जन्तइतिगाथार्थः ।।अमुमेवार्थं स्पष्टयतिनि.[१२९] कुसुमे सहावफुल्ले आहारंति भमरा जह तहा उ।
भत्तंसहावसिद्धंसमणसुविहिया गवसंति॥ वृ.'कुसुमे' पुष्पे 'स्वभावफुल्ले प्रकृतिविकसिते 'आहारयन्ति' कुमुमरसं पिबन्ति 'भ्रमरा' मधुकरा 'यथा' येन प्रकारेण कुसुमपीडामनुत्पादयन्तः 'तथा' तेनैव प्रकारेण भक्तम्' ओदनादि 'स्वभावसिद्धम्' आत्मार्थं कृतम् उद्गमादिदोषरहितम् इत्यर्थः, श्रमणाश्च ते सुविहिताश्च श्रमणसुविहिताः-शोभनानुष्ठानवन्त इत्यर्थः 'गवेषयन्ति' अन्वेषयन्तीति गाथार्थः ।। साम्प्रतं पूर्वोक्तो यो दोषः मधुकरसमा इत्यत्र तत्परिजिहीर्षयैव यावतोपसंहारः क्रियते तदुपदर्शयन्नाहनि.[१३०] उवसंहारो भमरा जह तहसमणावि अवहजीवित्ति।
- दंतत्ति पुण पयंमी नायव्वंवक्कसेसमिणं॥ वृ.उपसंहार' उपनयः, भ्रमरा यथा अवधजीविनः तथा श्रमणा अपि' साधवोऽप्येतावतैवांशेनेति गाथादलार्थः ।। इतश्च भ्रमरसाधूनां नानात्वमवसेयं, यत आह सूत्रकारः 'नानापिण्डरया . दन्ता' इति नाना-अनेकप्रकारोऽभिग्रहविशेषात्प्रतिगृहमल्पाल्पग्रहणाश्च पिण्डआहारपिण्डः, 275
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org