________________
दशवैकालिक-मूलसूत्र-१/-/१ तओसेसेहिं भणियं-नत्थित्थसमणोवासओ, पच्छा सो भणइ-मए हिंडंतेनं पुत्ववेतालीए समुद्दस्स तडे रुक्खो महइमहंतो दिट्ठो, तस्सेगा साहा समुद्दे पइट्ठिया, एगा य थले, तत्थ जाणि पत्ताणि जले पडंति ताणि जलचराणि सत्ताणि हवंति, जाणि थले ताणि थलचराणि हवंति, ते कप्पडिया भणंति-अहो अच्छेरयं देवेन भट्टारएण निम्मियंति, तत्थेगो सावगो कप्पडिओ,सो भणइ-जाणि अद्धमज्झे पडंति ताणि किं हवंति?, ताहे सो खुद्धो भणइ-भया पुव्वं चेव भणियं-जइ सावओ नत्थि तो कहेमि । एतेनं तं चेव पडणवत्थुमहिकिच्चोदाहरियं । एवं तावल्लौकिकम्, इदं चौक्तन्यायाल्लोकोत्तरस्यापि सूचकं, तत्रचरणकरणानुयोगे यः कश्चिद्विनेयः कञ्चनासद्ग्राहंगृहीत्वा न सम्यग्वर्त्तत्ते स खलु तद्वस्तूपन्यासेनैव प्रज्ञापनीयः, यथा कश्चिदाह
"नमांसभक्षणे दोषो, न मद्येन च मैथुने।
प्रवृत्तिरेषा भूतानां, निवृत्तिस्तु महाफला॥" इदंच किलैवमेव युज्यते, प्रवृत्तिमन्तरेण निवृत्तेः फलाभावात्, निर्विषयत्वेनासम्भवाच्च, तस्मात्फलनिबन्धननिवृत्तिनिमित्तत्वेन प्रवृत्तिरप्यदुष्टेवेति, अत्रोच्यते, इह निवृत्तेर्महाफलत्वं किं दुष्टप्रवृत्तिपरिहारात्मकत्वेनाहोस्विददुष्टप्रवृत्तिपरिहारात्मकत्वेनेति?, यद्याद्यः पक्षः कथं प्रवृत्तेरदुष्टत्वम्, अथापरस्तो निवृत्तरप्यदुष्टत्वात् तन्निवृत्तेरपि प्रवृत्तिरूपाया महाफलत्वप्रसङ्गः, तथा च सति पूर्वापरविरोध इति भावना । द्रव्यानुयोगे तु य एवमाह-एकान्तनित्यो जीवः अमूर्त्तत्वादाकाशवदिति, स खलु तदेवामूर्त्तत्वमाश्रित्य तस्योत्क्षेपणादावनित्ये कर्मण्यपि तावद्वक्तव्यः, कर्मामूर्तनित्यं चेत्ययं वृद्धदर्शनेनोदाहरणदोष एव, यथाऽन्येषां साधर्म्यसमा जातिरिति। गतं तद्वस्तूपन्यासद्वारम्, अधुना तदन्यवस्तूपन्यासद्वारमभिधातुकाम आहनि.[८५/२] तयअन्नवत्थुगंमिवि अन्नत्ते होइ एगत्तं॥
वृ.तदन्यवस्तुकेऽपि उदाहरणे, किम्?-अन्यत्वे भवत्येकत्वमित्यक्षरार्थः । भावार्थस्त्वयम्कश्चिदाह इह यस्य वादिनोऽन्यो जीवः अन्यच्च शरीरामिति, तस्यान्यशब्दस्याविशिष्टत्वात्तयोरपितद्वाच्याविशिष्टत्वेनैकत्व प्रसङ्गइति, तस्य जीवशरीरपेक्षयातदन्यवस्तूपन्यासेन परिहार: कर्त्तव्यः, कथम्?, नन्वेवंसति सर्व भावानां परमाणुद्वयणुकघटपटादीनामेकत्वप्रसङ्गः, अन्यः परमाणुरन्यो द्विप्रदेशिक इत्यादिना प्रकारेणान्यशब्दस्याविशिष्टत्वात्, तेषां च तद्वाच्यत्वेनाविशिष्टत्वादिति, तस्मादन्यो जीवोऽन्यच्छरीरमित्येतदेव शोभनमिति। एत-द्रव्यानुयोगे, अनेन चेतरस्याप्याक्षेपः, तत्र चरणकरणानुयोगे 'न मांसभक्षण' इत्यादावेव कुग्राहे तदन्वयस्तूपन्यासेन परिहारः, कथम्?, 'न हिंस्यात् सर्वाणि भूतानी' त्येतदेवं विरुध्यते इति। लौकिकं तु तस्मिन्नेवोदाहरणे तदन्यवस्तूपन्यासेन परिहार:-जहा जाणि पुण पाडिऊण पाडीऊण कोइ खाइ वीणेइ वा ताणिं किं हवंति त्ति?।।
गतं तदन्यवस्तूपन्यासद्वारम्, साम्प्रतं प्रतिनिभम-भिधित्सुराहनि.[८६/१] तुज्झ पिया मह पिउणो धारेइ अनूनयं पडिनिभंमि।
वृ. तव पिता मम पितुर्धारयत्यनूनं शतसहस्त्रमित्यादि गम्यते। 'प्रतिनिभ' इति द्वारोपलक्षणम्, अयमक्षरार्थः, भावार्थ: कथानकादसेयः, तच्चेदम्-एगम्मि नगरे एगो परिव्वायगो सोवण्णएण खोरएण तहिं हिंडइ, सो भणइ-जो मम असुयं सुणावेइ तस्स एवं देमिखोरयं, तत्थ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org