________________
३७
अध्ययनं -१, उद्देशकः - [नि. ५६ ]
तो हि चेव अच्छामि, ताहं पडिबोहेहामि, बितिअदिवसे अ चेल्लओ संदिसावेऊण गओ दोसीणस्स, पडिआगसो आलोइत्ता चाउम्मासियखमगं निमंतेइ, तेना पडिग्गहे से निच्छूढं, चेल्लओ भइ-मिच्छामिदुक्कडं जं तुब्भे मए खेलमल्लओ न पणामिओ, तं तेन उप्पराउ चेव फेडित्ता खेलमल्लए छूढ, एवं जाव तिमासिएणं जाव एगमासिएणं निच्छूढं, तं तेन तहा चेव फेडिअं, अडुयालित्ता लंबणे गिण्हामित्तिकाउं खमएण चेल्लओ बाहं गहिओ, तं तेन तस्स चेल्लगस्स अदीनमनसस्स विसुद्धपरिणामस्स लेस्साहिंविसुज्झमाणीहिंतदावरणिज्जाणं कम्माणं खएण केवलनाणं समुप्पन्नं, ताहे सा देवया भणइ - किह तुब्भे वंदिअव्वा ? जेणेवं कोहाभिभूआ अच्छह, ताहे ते खमगा संवेगमावण्णा मिच्छामिदुक्कडंति, अहो बालो उवसंतचित्तो अम्हेहिं पावकम्मेहिं आसाइओ, एवं तेसिंपि सुहज्झवसाणेणं केवलनाणं समुप्पन्नं, एवं पसंगओ कहियं कहाणयं, उवणओ पुन कोहादिगाओ अपसत्थभावाओ दुग्गइए अवाओ त्ति ॥ परलोकचिन्तायां प्रकृतोपयोगितां दर्शयन्नाह- ।
नि. [५७]
सिक्खगअसिक्खगाणं संवेगथिरद्वयाइ दोहंपि । दव्वाईया एवं दंसिज्जंते अवाया उ ॥
वृ.‘शिक्षकाशिक्षकयोः' अभिनवप्रव्रजितचिरप्रव्रजितयो: अभिनवप्रव्रजितगृहस्थयोर्वा संवेगस्थैर्यार्थं द्वयोरपि द्रव्याद्या 'एवम्' उक्तेन प्रकारेण वक्ष्यमाणेन वा दर्श्यन्ते अपाया इति, तत्र संवेगो-मोक्ष-सुखाभिलाषः स्थैर्यं पुनः अभ्युपगतापरित्यागः, ततश्च कथं नु नाम दुःखनिबन्धनद्रव्याद्यवगमात्तयोः संवेगस्थैर्ये स्यातां ? द्रव्यादिषु चाप्रतिबन्ध इति गाथार्थः ॥ दविअं कारणगहिअं विगिंचिअव्वमसिवाइखेत्तं च । बारसहिंएस्सकालो कोहाइविवेग भावम्मि ॥
नि. [५८]
वृ . इहोत्सर्ग मुमुक्षुणा द्रव्यमेवाधिकं वस्त्रपात्राद्यन्यद्वा कनकादि न ग्राह्यं, शिक्षकाहिसंदिष्टादिकारणगृहीतमपि तत्परिसमाप्तौ परित्याज्यम्, अत एवाह- द्रव्यं कारणगृहीतं, किम् ? 'विकिंचितव्यं' परित्याज्यम्, अनेकैहिकामुष्मिकापायहेतुत्वात्, दुरन्ताग्रहाद्यपाय - हेतुता च मध्यस्थैः स्वधिया भावनीयेति । एवमशिवादिक्षेत्रं च, परित्याज्यमिति वर्त्तते, अशिवादि-प्रधानं क्षेत्रमशिवादिक्षेत्रम्, आदिशब्दाद्नोदरताराजद्विष्टादिपरिग्रहः, परित्याज्यं चेदमनेकैहिकामुष्मिकापायसम्भवादिति । तथा द्वादशभिर्वर्षैरेष्यत्कालः, परित्याज्य इति वर्त्तते, तत एवापाय- सम्भवादिति भावना, एतदुक्तं भवति- अशिवादिदुष्ट एष्यत्कालः द्वादशभिर्वर्षैरनागतमेवोज्झितव्यइति उक्तं च
"संवच्छरबारसएण होहिति असिवंति ते तओ निंति । सुत्तत्थं कुव्वंता अतिसयमादीहिनाऊण ॥" इत्यादि ।
तथा 'क्रोधादिविवेको भाव' इति क्रोधादयोऽप्रशस्तवास्तेषां विवेक:- नरकपातनाद्यपायहेतुत्वात्परित्यागः, भाव इति - भावापाये, कार्य इत्ययं गाथार्थः ॥ एवं तावद्वस्तुतश्चरणकरणानुयोगमधिकृत्यापायः प्रदर्शितः, साम्प्रतं द्रव्यानुयोगमधिकृत्य प्रदर्श्यतेदव्वादिएहिं निच्चो एगंतेनेव जेसि अप्पा उ । होइ अभावो तेसिं सुहदुहसंसारमोक्खाणं ॥
नि. [ ५९ ]
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org