SearchBrowseAboutContactDonate
Page Preview
Page 260
Loading...
Download File
Download File
Page Text
________________ चूलिका-२. मूलं-५२७ [नि.३६८] २५७ "निमित्तमासाद्य यदेव किञ्चन, स्वधर्ममार्ग विसृजन्ति बालिशाः। तपः श्रुतज्ञानधनास्तु साधवो, न यान्ति कुच्छ्रे परमेऽपि विक्रियाम्॥१॥ कपालमादाय विपन्नवाससा, वरं द्विषद्वेश्मसमृद्धिरीक्षिता। विहाय लज्जां न तु धर्मवैशसे, सुरेन्द्रता(सा)र्थेऽपि समाहितं मनः ।।२।। पापं समाचरति वीतघृणो जघन्यः प्राप्यापदं सघृण एव विमध्यबुद्धिः। - प्राणात्येयऽपि न तु साधुजनः स्ववृत्तं, वेलां समुद्र इव लवयितुं समर्थः ।।" इत्यलं प्रसङ्गेनेति सूत्रार्थः। मू.(५२७) अनुसोअसुहो लोओ, पडिसोओ आसवो सुविहिआणं। - अनुसोओ संसारो, पडिसोओ तस्स उत्तारो॥ . वृ.अधिकृतमेवस्पष्टनाह- अनुस्रोतःसुखोलोक:' उदकनिम्नाभिसर्पणवत्प्रवृत्त्याऽनुकूलविषयादिसुखो लोकः, कर्मगुरुत्वात्, 'प्रतिस्तोतएव' तस्माद्विपरीतः आश्रवः' इन्द्रियजयादिरूपः परमार्थपेशल: कायवाङ्मनोव्यापारः आश्रमोवा' व्रतग्रहणादिरूपः 'सुविहितानां' साधूनाम्, उभयफलमाह-'अनुस्रोत: संसारः' शब्दादिविषयानुकूल्यं संसारएव, कारणे कार्योपचारात्, यथा विषं मृत्युः दधि त्रपुषी प्रत्यक्षो ज्वरः, 'प्रतिस्त्रोतः' उक्तलक्षणः, तस्येति पञ्चम्यर्थे षष्ठी 'सुपांसुपो भवन्तीति वचनात्, 'तस्मात्' संसाराद् 'उत्तारः' उत्तरणमुत्तारः, हेतौ फलोपचारात् यथाऽऽयुधृतं तन्दुलान्वर्षति पर्जन्य इति सूत्रार्थः ।। मू.(५२८) तम्हा आयारपरक्कमेणं संवरसमाहिबहुलेणं। चरिआ गुणा अनियमा अहंति साहूण दट्ठव्वा॥ वृ.यस्मादेतदेवमनन्तरोदितं तस्मात् 'आचारपराक्रमेणे' त्याचारे-ज्ञानादौ पराक्रमःप्रवृत्तिबलं यस्य स तथाविध इति, गमकत्वाद्बहुव्रीहिः, तेनैवंभूतेन साधुना संवरसमाधिबहुलेने'ति संवरे-इन्द्रियादिविषये समाधिः-अनाकुलत्वं बहुलं-प्रभूतं यस्य स इति, समासः पूर्ववत्, तेनैवंविधेन सता अप्रतिपातायविशुद्धयेच, किमित्याह-'चर्या' भिक्षुभावसाधनी बाह्याऽनियतवासादिरूपा गुणाश्च-मूलगुणोत्तरगुणरूपाः नियमाश्च-उत्तरगुणानामेव पिण्डविशुद्ध्यादीनां स्वकालासेवननियोगाः भवन्ति साधूनां द्रष्टव्या' इत्येते चर्यादयः साधूनां द्रष्टव्या भवन्ति, सम्यग्ज्ञानासेवनप्ररूपणारूपेणेति सूत्रार्थः॥ मू.(५२९) अनिएअवासो समुआणचारिआ, अनायउंछं पइरिक्कया । . अप्पोवही कलहविवज्जणा अ, विहारचरिआ इसिणं पसत्था॥ वृ.चर्यामाह-अनियतवासो मासकल्पादिना अनिकेतवासो वा' अगृहे-उद्यानादौ वासः, तथा समुदानचर्या' अनेकत्र याचितभिक्षाचरणम् 'अज्ञाताञ्छं' विशुद्धोपकरणग्रहणविषयं, 'पइरिक्कया य' विजनैकान्तसेविता च 'अल्पोपधित्वम्' अनुल्बणयुक्तस्तोकोपधिसेवित्वं 'कलहविवर्ज़ना च' तथा तद्वासिना भण्डनविवर्जना, विवर्जनं विवर्जना श्रवणकथनादिना परिवर्जनमित्यर्थः। 'विहारचर्या' विहरणस्थितिविहरणमर्यादा 'इयम्' एवंभूता'ऋषीणां' साधूनां प्रशस्ता-व्याक्षेपाभावात् आज्ञापालनेन भावचरणसाधनात्पवित्रेति सूत्रार्थः ।। 27/17 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003331
Book TitleAgam Suttani Satikam Part 27 Dasvaikaalika
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages284
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy