________________
१८
दशवैकालिक-मूलसूत्र-१/-/इदानीमक्षीणम-तच्च भावाक्षीणमिदमेव, शिष्यप्रदानेऽप्यक्षयत्वात्, तथा चाह-यथा दीपाद्दीपशतं प्रदीप्यते, स च दीप्यते दीपः, एवं 'दीपसमा' दीपतुल्या आचार्या दीप्यन्ते स्वतो विमलमत्याधुपयोगयुक्तत्वात् 'परंच' विनेयं 'दीपयन्ति' प्रकाशयन्त्युज्जवलं वा कुर्वन्तीति गाथार्थः ।।इदानीमायः-सच भावत इदमेव, यत आह-'ज्ञानस्य' मत्यादेः 'दर्शनस्य' चौपशमिकादेः 'चरणस्य च' सामायिकादेः 'येन' हेतुभूतेन 'आगमो भवति' प्राप्तिर्भवति स भवति भावायः, आयो लाभ इति निर्दिष्टः, अध्ययनेन च हेतुभूतेन ज्ञानाद्यागमो भवतीति गाथार्थः। __ अधुना क्षपणा, साऽपि भावत इदमेवेति, आह च-'अष्टविधम्' अष्टप्रकारं कर्मरजः तत्र जीवगुण्डनपरत्वात्कर्मैव रजः कर्मरजः 'पुराणं' प्रागुपात्तं यत्' यस्मात्क्षपयति 'योगैः' अन्त:- . करणादिभिरभ्ययनं कुर्वन्, तस्मादिदमेव कारणे कार्योपचारात् क्षपणेति । तथा चाह-इदं भावाध्ययनं 'नेतव्यं' योजनीयम् 'आनुपूर्व्या' परिपाट्य अध्ययनाक्षीणादिष्विति गाथार्थः।
उक्त ओघनिष्पन्नो निक्षेपः, साम्प्रतं नामनिष्पन्न उच्यते-तत्रौघनिष्पन्नेऽध्ययनं नामनिष्पन्ने द्रुमपुष्पिकेति, आह-द्रुम इति कः शब्दार्थः?, उच्यते, "दुद्रुगतौ" इत्यस्य द्रुस्मिन् देशे विद्यत इति तदस्यास्त्यस्मिन्निति मतुपि प्राप्ते "दुद्रुभ्यां मः" इति मप्रत्ययान्तस्य द्रुम इति भवति । साम्प्रतं द्रुमपुष्पनिक्षेपप्ररूपणायाहनि.[३४] नामदुमोठवणदुमो दव्वदुमो चेव होइ भावदुमो।
एमेव य पुष्फस्स विचउव्विहो होइ निक्खेवो॥ वृ. नामद्रुमो' यस्य द्रुम इति नाम द्रुमाभिधानं वा, स्थापनाद्रुमो द्रुम इतिस्थापना, 'द्रव्यद्रुमश्चैव भवति भावद्रुमः' तत्र द्रव्यद्रुमो द्विधा-आगमतो नोआगमतश्च, आगमतो ज्ञाताऽनुप-युक्तः, नोआगमतस्तु ज्ञशरीर भव्यशरीरोभयव्यतिरिक्तस्त्रिविधः, तद्यथा-एकभविको बद्धायुष्कोऽकस्तु येन द्रुमनामगोत्रे कर्मणी बद्धे इति, अभिमुखनामगोत्रस्तु येन ते नामगोत्रे कर्मणी उदीरणावलिकायां प्रक्षिसे इति, अयं च त्रिविधोऽपि भाविभावद्रुमकारणत्वाद्रव्यद्रुम इति, भावद्रुमोऽपि द्विविधः-आगमतो नोआगमतश्च, तत्रागमतो ज्ञातोपयुक्तः, नोआगमतस्तु द्रुम एव द्रुमनामगोत्रे कर्मणी वेदयनिति। एवमेवच' यथाद्रुमस्य तथा किम्?-'पुष्पस्यापि' वस्तुतस्तद्विकारभूतस्य चतुर्विधो भवति निक्षेप इति गाथार्थः ।। साम्प्रतं नानादेशजविनेयगणासम्मोहार्थमागमे द्रुमपर्यायशब्दान् प्रतिपादयन्नाहनि.[३५]
दुमा पायवारुक्खा, अगमा विडिमा तरू।
कुहा महीरुहा वच्छा, रोवगारुंजगावि ॥ वृ.द्रुमाश्च पादपा वृक्षा अगमा विटपिन: तरवः कुहा महीरुहा वच्छा रोपकारुज्जकादयश्च । तत्र द्रुमान्वर्थसंज्ञा पूर्ववत्, पद्मां पिबन्तीति पादपा इत्येवमन्येषापि यथासम्भवमन्वर्थसंज्ञा वक्तव्या, रूढिदेशीशब्दा वा एत इति गाथार्थः । इदानीं पुष्पैकार्थिकप्रतिपादनायाहनि.[३६] पुप्फाणी अकुसुमाणि अफुल्लाणि तहेव होंति पसवाणी।
सुमणाणि असुहुमाणि अपुप्फाणं होंति एगट्ठा॥ वृ.पुष्पाणि कुसुमानि चैव फुल्लानि प्रसवानि च सुमनांसि चैव सूक्ष्माणि' सूक्ष्मकायिकानि चेति।साम्प्रतमेकवाक्यतया द्रुमपुष्पिकाध्ययनशब्दार्थ उच्यते-द्रुमस्य पुष्पंद्रुमपुष्पम्, अवयव
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org