________________
२०४
मू. (३४८ )सवक्कसुद्धिं समुपेहिआ मुनी, गिरं च दुहुं परिज्जए सया । मिअं अदुट्टे अनुवीइ भासए, सयाण मज्झे लहई पसंसणं ॥
वृ. वाक्यशुद्धिफलमाह - 'सवक्क' त्ति सूत्रं, सद्वाक्यशुद्धि वा, सतीं शोभनां, स्वामात्मीयां, स इति वक्ता, वाक्यशुद्धि 'संप्रेक्ष्य' सम्यग् दृष्ट्वा 'मुनिः' साधुः गिरंतु 'दुष्टां' यथोक्तलक्षणां परिवर्जयेत् सदा, किंतु 'मितं' स्वरतः परिमाणतश्च, 'अदुष्टं' देशकालोपपन्नादि 'अनुविचिन्त्य' पर्यालोच्य भाषमाणः सन् 'सतां' साधूनां मध्ये 'लभते प्रशंसनं' प्राप्नोति प्रशंसामिति । मू. (३४ ९ ) भासाइ दोसे अ गुणे अ जाणिआ, तीसे अ दुट्टे परिवज्जए सया ।
छसु संजए सामणिए सया जए, वइज्ज बुद्धे हिअ मानुलोमिअं ॥ वृ.यतश्चैवमतः-‘भासाइ’त्ति सूत्रं, 'भाषाया' उक्तलक्षणाया दोषांश्च गुणांश्च 'ज्ञात्वा' यथावदवेत्य तस्याश्च दुष्टाया भाषायाः परिवर्जकः सदा, एवंभूतः सन् षड्जीवनिकायेषु संयतः, तथा 'श्रामण्ये' श्रमणभावे चरणपरिणामगर्भे चेष्टिते 'सदा यतः ' सर्वकालमुद्युक्तः सन् वदेद् बुद्धो 'हितानुलोमं' हितं परिणामसुन्दरम् अनुलोमं मनोहारीति सूत्रार्थः ॥
दशवैकालिक - मूलसूत्रं - ७ /-/ ३४८
मू. (३५० ) परिक्खभासी सुसमाहिइंदिए, चउक्कसायावगए अनिस्सिए ।
से निद्धुणे धुत्रमलं पुरेकडं, आराहए लोगमिण तहा परं ॥ ति बेमि ॥
वृ. उपसंहरन्नाह - 'परिक्ख'त्ति सूत्रं, 'परीक्ष्यभाषी ' आलोचितवक्ता तथा 'सुसमाहितेन्द्रियः ' सुप्रणिहितेन्द्रिय इत्यर्थः, 'अपगतचतुष्कषायः' क्रोधादिनिरोधकर्तेति भावः, 'अनिश्रितो' द्रव्यभावनिश्रारहितः, प्रतिबन्धविमुक्त इति हृदयम्, स इत्थंभूतो 'निर्धूय' प्रस्फोट्य 'धून्नमलं' पापमलं 'पुराकृतं' जन्मान्तरकृतं किमिति ? - ' आराधयति' प्रगुणीकरोति लोकम् 'एनं' मनुष्यलोकं वाक्यसंयतत्वेन, तथा 'पर' मिति परलोकमाराधयति निर्वाणलोकं, यथासंभवमनन्तरं पारम्पर्येण वेति गर्भः । ब्रवीमिति पूर्ववत् । नयाः पूर्ववदेव ॥
/
अध्ययनं ७ समाप्तम्
मुनि दीपरत्न सागरेण संशोधिता सम्पादिता दशवैकालिकसूत्रे सप्तम् अध्ययनस्य भद्रबाहु स्वामि विरचिता निर्युक्तिः एवं हरिभद्रसूरि विरचिता टीका परिसमाप्ता । अध्ययनं - ८ आचारप्रणिधिः
-
Jain Education International
वृ.व्याख्यातं वाक्यशुद्ध्यध्ययनम्, इदानीमाचारप्रणिध्याख्यामारभ्यते, अस्य चायमभिसंबन्धः इहानन्तराध्ययने साधुना वचनगुणदोषाभिज्ञेन निरवद्यवचसा वक्तव्यमित्येतदुक्तम्, इह तु तन्निरवद्यं वच आचारे प्रणिहितस्य भवतीति तत्र यत्नवता भवितव्यमित्येतदुच्यते, "पणिहाणरहिअस्सेह, निरवज्जंपि भासिअं ।
सावज्जतुल्लं विन्नेअं, अज्झत्थेणेह संवुडम्॥"
इत्यनेनाभिसंबन्धेनायातमिदमध्ययनम्, अस्य चानुयोगद्वारोपन्यासः पूर्ववत्तावद्यावन्नामनिष्पन्नो निक्षेपः, तत्र चाचारप्रणिधरिति द्विपदं नाम, तत्राचारनिक्षेपमतिदिशन् प्रणिधिं च प्रतिपादयन्नाह
नि. [२९४ ]
जो पुव्वि उद्दिट्ठो आयारो सो अहीनमइरित्तो ।
For Private & Personal Use Only
www.jainelibrary.org