SearchBrowseAboutContactDonate
Page Preview
Page 203
Loading...
Download File
Download File
Page Text
________________ २०० उपलक्षित इति सूत्रार्थः ॥ मू. (३२७) दशवैकालिक - मूलसूत्रं - ७ /-/ ३२६ तहेवोसहिओ पक्काओ, नीलिआओ छवीइ अ । लाइमा भज्जिमाउत्ति, पिहुखज्ज त्ति नो वए । वृ. 'तहेव 'त्ति सूत्रं, तथा 'ओषधयः' शाल्यादिलक्षणः, पक्वा इति, तथा नीलाश्छवय इति वा वल्लचवलकादिफललक्षणाः तथा 'लवनवत्यो' लवनयोग्याः 'भर्जनवत्य' इति भर्जनयोग्याः तथा 'पृथक भक्ष्या' इति पृथुकभक्षणयोग्याः, नो वदेदिति सर्वत्राभिसंबध्यते, पृथुका अर्धपक्वशाल्यादिषु क्रियन्ते, अभिधानदोषाः पूर्ववदिति सूत्रार्थः ॥ मू. (३२८ ) रूढा बहुसंभूआ, थिरा ओसढावि अ । गभिआओ पसूआओ, संसाराउत्ति आलवे ॥ वृ. प्रयोजने पुनर्मार्गदर्शनादावेवमालपेदित्याह - 'रूढ' त्ति सूत्रं, 'रूढा: ' प्रादुर्भूता: 'बहुसंभूता' निष्पन्नप्रायाः ‘स्थिरा' निष्पन्नाः 'उत्सृता' इति उपघातेभ्यो निर्गता इति वा, तथा 'गर्भिता' अनिर्गतशीर्षकाः 'प्रसूता' निर्गतशिर्षकाः 'प्रसूता' निर्गतशीर्षकाः 'संसारा: ' संजाततन्दुलादिसारा इत्येवमालपेत्, पक्वाद्यर्थयोजना स्वधिया कार्येति सूत्रार्थः ॥ तहेव संखडि नच्चा, किच्चं कज्जंति नो वए । तेनगं वावि वज्झित्ति, सुतित्थित्ति अ आवगा ॥ मू. ( ३२९) वृ. वाग्विधिप्रतिषेधाधिकारेऽनुवर्तमान इदमपरमाह-'तहेवं' त्ति सूत्रं, तथैव 'संखडि ज्ञात्वा ' संखण्डयन्ते प्राणिनामायूंषि यस्यां प्रकरणक्रियायां सा संखडी तां ज्ञात्वा, 'करणीये 'ति पित्रादिनिमित्तं कृत्यैवैषेति नो वदेत्, मिथ्यात्वोपबृंहणदोषात्, तथा स्तेनकं वापि वध्य इति नो वदेत्, तदनुमतत्वेन निश्चयादिदोषप्रसङ्गात्, सुतीर्था इति च, चशब्दाद्दुस्तीर्था इति वा 'आपगा ' नद्यः केनचित्पृष्टाः सन्नो वदेत्, अधिकरणविधातादिदोषप्रसङ्गादिति सूत्रार्थः ॥ मू. ( ३३० ) संखडि संखडि बूआ, पणिअट्ठ त्ति तेनगं । बहुसमाणि तित्थाणि, आवगाणं विआगरे । वृ. प्रयोजने पुनरेवं वदेदित्याह - 'संखडि 'न्ति सूत्रं, संखडि संखडिब्रूयात्, साधुकथनादौ संकीर्णा संखडीत्येवमादि, पणितार्थ इति स्तेनकं वदेत्, शैक्षकादिकर्मविपाकदर्शनादौ, पणितेनार्थोऽस्येति पणितार्थः, प्राणद्यूतप्रयोजन इत्यर्थः, तथा बहुसमानि तीर्थानि 'आपगानां ' नदीनां व्यागृणीयात् साध्वादिविषय इति सूत्रार्थः ॥ Jain Education International मू. (३३१ ) तहा नईओ पुण्णाओ, कायतिज्जत्ति नो वए। नावाहिं तारिमाउत्ति, पाणिपिज्जत्ति नो वए ॥ वृ. वाग्विधिप्रतीषेधाधिकार एवेदमाह- 'तहा नईउ' त्ति सूत्रं, तथा नद्यः 'पूर्णा' भृता इति नो वदेत्, प्रवृत्तश्रवणनिवर्त्तनादिदोषात्, तथा 'कायतरणीयाः ' शरीरतरणयोग्या इति नो वदेत्, साधुवचनतोऽविघ्नमिति प्रवर्त्तनादिप्रसङ्गात्, तथा नौभिः - द्रोणीभिस्तरणीयाः -तरणयोग्या इत्येवं नो वदेत्, अन्यथा विघ्नशङ्कया तत्प्रवर्त्तनात्, तथा 'प्राणिपेयाः' तटस्थप्राणिपेया नो वदेदिति, तथैव प्रवर्तनादिदोषादिति सूत्रार्थः ॥ मू. (३३२ ) बहुवाहडा अगाहा, बहुसलिलुप्पिलोदगा । For Private & Personal Use Only www.jainelibrary.org
SR No.003331
Book TitleAgam Suttani Satikam Part 27 Dasvaikaalika
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages284
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy