________________
१७४
दशवैकालिक - मूलसूत्र - ६ /-/ २२९ लमुद्गमापाश्च अतसीहरिमन्थत्रिपुटकनिष्पावसिलिन्दराजमाषाश्च इक्षुमसूरतुवर्यः कुलत्था धान्यककलायाश्चेति, एतानि प्रायो लौकिकसिद्धान्येव, नवरं ष्टिकाः - शालिभेदाः कङ्कःउदकङ्गः तद्भेदो रालक: हरिमन्थाः - कृष्णचणका: निष्पावा- वल्ला: राजमाषाः -चवलकाः शिलिन्दा - मकुष्ठाः धान्यकं कुस्तुम्भरी कलायका-वृत्तचणका इति गाथाद्वयार्थः ॥ उक्त धान्यविभागः, अधुना रत्नविभागमाह
नि. [२५५ ] रयणाणि चउव्वीसं सुवण्णतउतंबरययलोहाई । सीसगहरिण्णपासाणवइरमणिमोत्तिअपवालं ॥
नि. [२५६ ] संखो तिनिसागुरुचंदणानि वत्थामिलाणि कट्ठाणि । तह चम्मदंतवाला गंधा दव्वासहाई च ॥
वृ. रत्नानि चतुर्विंशति:, सुवर्णत्रपुताम्ररजतलोहानि सीसकहिरण्यपाषाणवज्रमणिमौक्तिकप्रवालानि । शङ्खतिनिशागरुचन्दनानि वस्त्रामिलानि काष्ठानि तथा चर्मदन्तवाला गन्धा द्रव्यौषधानि च । एतान्ययि प्रायो लौकिकसिद्धान्येव नवरं रजतं रूप्यम् हरिण्यं-रूपकादि पाषाणाविजातीयरत्नानि मणयोजात्यानि । तिनिशो-वृक्षविशेष: अमिलानि - ऊर्णावस्त्राणि काष्ठानिश्रीपर्ण्यादिफलकादीनि चर्माणि सिंहादीनां दन्ता गजादीनां वालाः चमर्यादीनां द्रव्यौषधानिपिप्पल्यादीनीति गाथाद्वयार्थः ॥ उक्तो रत्नविभागः, स्थावरादिविभागमाह
नि. [२५७] भूमी धरा य तरुगण तिविहं पुण थावरं मुणेअव्वं । चक्कारबद्धमानुस दुविहं पुण होइ दुपयं तु ॥
वृ. भूमिर्गृहाणि तरुगणाश्च चशब्दस्य व्यवहित उपन्यासः, त्रिविधं पुनरोधत: स्थावरं मन्तव्यं, पुनःशब्दो विशेषणार्थः, किं विशिनष्टि ?, स्वगतान्, भेदान्, तद्यथा - भूमिः क्षेत्रं, तच्च त्रिधा - सेतु केतु सेतु केतु च गृहाणि प्रासादाः, तेऽपि त्रिविधा: - खातोत्छ्रितोभयरूपाः, तरुगणा नालिकेर्याद्यारामा इति, 'चक्रारबद्धमानुष' मिति चक्रारबद्धं - गन्त्र्यादि मानुषं - दासादि, एवं द्विपदं पुनर्भवति द्विविधमिति गाथार्थः ॥ उक्तं स्थावरादि, चतुष्पदमाहगावी महिसी उट्ठा अयएलगआस आसतरगा अ । घोडग गद्दह हत्थी चउप्पयं होइ दसहा उ ॥
नि. [२५८ ]
वृ. गौर्महिषी उष्ट्री अजा एडका अश्वा अश्वतराश्च घोटका गर्दभा हस्त्रितश्चतुष्पदं भवति दशधा तु, एते गवादय: प्रतीता एव, नवरमश्वा-वाल्हीकादिदेशोत्पन्ना जात्या: अश्वतरावेगसराः अजात्या घोटका इति गाथार्थः ॥ उक्तं चतुष्पदं कुप्यमाह
नि. [२५९]
नानाविहोवगरणं नेगविहं कुप्पलक्खणं होइ । एसो अत्थ भणिओ छव्विह चउसट्टिभेओ उ ॥
वृ. 'नानाविधोपकरणं' ताम्रकलशकडिल्लादि जातित: अनेकविधं व्यक्तितः कुप्यलक्षणं भवति । 'एषः' अनन्तरोदितोऽर्थो 'भणित' उक्तः षड्विधः, चतुःषष्टिभेदस्तु ओघविभागाभ्यां प्रकृतोपयोगो द्रव्यार्थ इति गाथार्थः । उक्तोऽर्थः साम्प्रतं काममाह
नि. [२६० ] कामो उवीसविहो संपत्तो खलु तहा असंपत्तो । संपत्तो चउदसहा दसहा पुण हो असंपत्तो ॥
For Private & Personal Use Only
Jain Education International
"
-
www.jainelibrary.org