________________
१७२
दशवैकालिक - मूलसूत्रं - ६ /-/ २२५ च - "गो अग्गपविट्ठो उ, न निसीएज्ज चानुयोगद्वारोपन्यासः पूर्ववत्तावद्यावन्नामनिष्पन्नो निक्षेपः, तत्र च महाचारकथेति नाम, एतच्च तत्त्वतः प्राग्निरूपितमेवेत्यतिदिशन्नाहजो वि उद्दि आयारो सो अहीणमइरित्तो । सच्चेव य होइ कहा आयारकहाए महईए ||
नि. [२४६]
वृ. य: 'पूर्वं ' क्षुल्लकाचारकथायां 'निर्दिष्ट' उक्तः 'आचारो' ज्ञानाचारादिः असावहीनातिरिक्तो वक्तव्यः, सैव च भवति 'कथा' आक्षेपण्यादिलक्षणा वक्तव्या, चशब्दात्तदेव क्षुल्लकप्रतिपक्षोक्तं महद्वक्तव्यम्, आचारकथायां महत्यां प्रस्तुतयामिति गाथार्थः । उक्तो नामनिष्पन्नो निक्षेप इत्यादिचर्चः पूर्ववत्तावद्यावत्सूत्रानुगमेऽस्खलितादिगुणोपेतं सूत्रमुच्चारणीयं तच्चेदम्मू. ( २२६ ) नाणदंसणसंपन्नं, संजमे अ तवे रयं । गणिमागमसंपन्नं, उज्जाणम्मि समोसढं ॥
वृ. 'ज्ञानदर्शनसंपन्नं' ज्ञानं श्रुतज्ञानादि दर्शनं - क्षायोपशमिकादि ताभ्यां संपन्नं युक्तं 'संयमे' पञ्चाश्रवविरमणादौ ‘तपसि च' अनशनादौ 'रतम्' आसक्तं, गणोऽस्यास्तीति गणी तं गणिनम्आचार्यम् ‘आगमसंपन्नं' विशिष्टश्रुतधरं, बह्वागमत्वेन प्राधान्यख्यापनार्थमेतत्, 'उद्याने' कचित्साधुप्रायोग्ये 'समवसृतं' स्थितं धर्मदेशनार्थं वा प्रवृत्तमिति सूत्रार्थः ॥
मू. ( २२७ ) रायाणो रायमच्चा य, माहणा अदुव खत्तिआ । पुच्छंति निहुअप्पाणो, कहं भे आयारगोयरो ? ॥
वृ. तत्किमित्याह-'रायाणो 'त्ति सूत्रं, 'राजानो' नरपतयः 'राजामात्याश्च' मन्त्रिण: 'ब्राह्मणाः ' प्रतीताः 'अदुव'त्ति तथा 'क्षत्रियाः ' श्रेष्ठयादयः पृच्छन्ति 'निभृतात्मानः' असभ्रान्ता रचिताञ्जलयः कथं ‘भे' भवताम् ‘आचारगोचर: ' क्रियाकलापः स्थित इति सूत्रार्थः ॥ तेसिं सो निहुओ दंतो, सव्वभूअसुहावहो ।
मू. (२२८ )
सिक्खाए सुसमाउत्तो, आयक्खइ विअक्खणो ॥
वृ. 'तेसिं'ति सूत्रं, 'तेभ्यो' राजादिभ्यः 'असौ' गणी 'निभृतः' असंभ्रान्त उचितधर्मकायस्थित्या, दान्त इन्द्रियनोइन्द्रियाभ्यां, 'सर्वभूतसुखावहः' सर्वप्राणिहित इत्यर्थः, 'शिक्षया' ग्रहणासेवनरूपया 'सुसमायुक्तः ' सुष्ठु - एकीभावेन युक्तः 'आख्याति' कथयति 'विचक्षणः ' पण्डित इति सूत्रार्थः ॥ मू. (२२९)
हंदि धम्मत्थकामाणं, निग्गंथाणं सुणेह मे । आयारगोअरं भीमं, सयलं दुरहिट्ठिअं ॥
वृ.‘हंदि’त्ति सूत्रं, हन्दीत्युपप्रदर्शने, तमेनं 'धर्मार्थकामाना 'मिति धर्मः - चारित्रधर्मादिस्तस्यार्थः- प्रयोजनं मोक्षस्तं कामयन्ति इच्छन्तीति विशुद्धविहितानुष्ठानकरणेनेति धर्मार्थकामामुमुक्षवस्तेषां 'निर्ग्रन्थानां' बाह्याभ्यन्तरग्रन्थरहितानां शृणुत मम समीपाद् 'आचारगोचरं' क्रियाकलापं 'भीमं कर्मशत्र्वपेक्षया रौद्रं 'सकलं' संपूर्ण 'दुरधिष्ठं' क्षुद्रसत्त्वैर्दुराश्रयमिति सूत्रार्थः । धर्मार्थकामानामित्युक्तं, तदेतत्सूत्रस्पर्शनिर्युक्ता निरूपयति-तत्र धर्म-निक्षेपो यथा प्रथमाध्ययने, नवरं लोकोत्तरमाह - .
नि. [२४७]
धम्म बावीसविहो अगारधम्मोऽनगारधम्मो अ ।
Jain Education International
-
For Private & Personal Use Only
www.jainelibrary.org