________________
अध्ययनं-५, उद्देशकः- १. [नि.२४५]
गंभीरं झुसिरं चेव, सबिंदिअसमाहिए। वृ. न तेन'त्ति सूत्रं, न 'तेन' काष्ठादिना भिक्षुर्गच्छेत्, किमिति?, अत्राहदृष्टस्तत्रासंयमः, तच्चलने प्राण्युपमर्दसंभवात्, तथा 'गम्भीरम्' अप्रकाशं 'शषीरं चैव' अन्तःसाररहितम्, 'सर्वेन्द्रियसमाहितः' शब्दादिषु रागद्वेषावगच्छन्, परिहरेदिति सूत्रार्थः ।। मू.(१४२) निस्सेणिं फलगं पीढं, उस्सवित्ता नमारुहे।
मंचं कीलं च पासायं, समणवा एव दावए । वृ. किं च -'निस्सेणि' ति सूत्रं, निश्रेणि फलकं पीठम् 'उस्सवित्ता' उत्सृत्य ऊध्वं कृत्वा इत्यर्थः, आरोहेन्मञ्चं कीलकंच उत्सृत्य कमारोहेदित्याह-प्रासादं, 'श्रमणार्थं' साधुनिमित्तं दायको' दाता आरोहेत्, एतदप्यग्राह्यमिति सूत्रार्थः ।। मू. (१४३) दुरूहमाणी पवडिज्जा, हत्थं पायं व लूसए।
पुढविजीवे विहिंसिज्जा, जे अतन्निस्सिया जगे। वृ.अत्रैव दोषमाह-'दुरूहमाणि'त्ति सूत्रं, आरोहन्ती प्रपेतत्, प्रपतन्ती च हस्तं पादं वा 'लूषयेत्' स्वकं स्वत एव खण्डयेत्, तथा पृथ्वीजीवान् विहिंस्यात्, कथंचित्तत्रस्थान्, तथा यानि च तनिश्रितानि 'जगन्ति' प्राणिनस्तांश्च हिंस्यादिति सूत्रार्थः ।। मू. ( १४४) एआरिसे महादोसे, जाणिऊण महेसिणो।
तम्हा मालोहडं भिक्खं, न पडिगिण्हति संजया ।। वृ.'एआरिसे'त्ति सूत्रं, 'ईदृशान्' अनन्तरोदितरूपान्महादोषान् ज्ञात्वा 'महर्षयः' साधवः । 'हंदि मालोहडं' ति, हन्दीत्युपप्रदर्शन इति सूत्रार्थः ।। मू. (१४५) कंदं मूलं पलंबं वा, आमं छिन्नं व सन्निरं।
तुंबागं सिंगबेरंच, आमगं परिवज्जए। वृ. प्रतिषेधाधिकार एवाह-'कंदं मूलं'ति सूत्रं, 'कन्दं' सूरणादिलक्षणम् 'मूलं' - विदारिकारूपम् 'प्रलम्ब वा' तालफलादि, आमं छिन्न वा 'सन्निरम्' सन्निरमिति पत्रशाकम्, 'तुम्बाकं त्वग्मिजान्तर्वति आर्द्रा वा तुलसीमित्यन्ये, 'शृङ्गबेरं' चाकम्, आमं परिवर्जयेदिति सूत्रार्थः ॥ मू. (१४६) तहेव सत्तुचुनाइं, कोलचुन्नाई आवणे। .
सक्कुलिं फाणिअंपूअं, अन्न वावि तहाविहं। वृ. 'तहेव' त्ति सूत्रं, तथैव 'सक्तुचूर्णान्' सक्तून् 'कोलचूर्णान्' बदरसक्तून् 'आपणे' वीथ्यां, तथा 'शुष्कुली' तिलपर्पटिकां 'फाणितं' द्रवगुडं 'पूर्य' कणिकादिमयम्, अन्यद्वा तथाविधं मोदकादि। मू. (१४७) विक्कायमाणं पसढं, रएणं परिफासि।
दितिअंपडिआइक्खे, न मे कप्पइ तारिसं॥ वृ.किमित्याह-'विक्कायमाणं' ति सूत्रं, विक्रीयमाणमापणे इति वर्तते, प्रसह्य' अनेकदिवसस्थापनेन प्रकट्म, अत एव 'रजसा' पार्थिवेन परिस्पृष्टं व्याप्तं, तदित्थम्भूतं तत्र ददती प्रत्याचक्षीत न मम कल्पते तादृशमिति सूत्रद्वयार्थः ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org