SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ १३८ दशवैकालिक मूलसूत्रं - ४ /-/ ४६ पडिलेहिअ पडिलेहिअ पमज्जिअ पमज्जिअ एगंतमवणेज्जानो नं संघायमावज्जेज्जा ॥ वृ- 'से भिक्खू वा इत्यादि यावज्जागरमाणे व'त्ति पूर्ववत्, ' से कीडंवा' इत्यिाद, तद्यथाकीटं वा पतङ्गं वा कुन्थुं वा पिपीलिकां वा, किमित्याह-हस्ते वा पादे वा बाहौ वा ऊरुणि वा उदरे वा वस्त्रे वा रजोहरणे वा गुच्छे वा उन्दके वा दण्डके वा पीठे वा फलके वा शय्यायां वा संस्तारके वा अन्यतरस्मिन् वा तथा प्रकारे साधुक्रियोपयोगिनि उपकरणजाते कीटादिरूपं त्रसं कथञ्चिदापतितं सन्तं संयत एव सन् प्रयत्येन वा प्रत्युपेक्ष्य प्रत्यपेक्ष्य - पौनःपुन्येन सम्यक्, प्रमृज्य प्रमृज्य-पौनःपुन्येनैव सम्यक्, किमित्याह - 'एकान्ते' तस्यानुपधातके स्थाने 'अपनयेत्' परित्यजेत्' 'नैनं त्रसं संघातमापादयेत्' नैनं त्रसं संघातं - परस्परगात्रसंस्पर्शपीडारूपमापादयेत्प्रापयेत्, अनेन परितापनादिप्रतिषेध उक्तो वेदितव्यः, 'एकग्रहणे तज्जातीयग्रहणाद्' अन्यकारणानुमतिप्रतिषेधश्च, शेषमन्न् प्रकटार्थमेव, नवरमुन्दकं स्थण्डिलं, शय्या संस्तारिका वसतिर्वा । इत्युक्ता यतना, गतश्चतुर्थोऽर्थाधिकारः ॥ मू. (४७) अजयं चरमाणो अ(उ), पाणभूयाइं हिंसइ । बंधई पावयं कम्मं, तं से होइ कडुअंफलं ॥ वृ. साम्प्रतमुपदेशाख्यः पञ्चम उच्यते- 'अजय'मित्यादि, 'अयतं चरन्' अयतम् अनुपदेशेनासूत्राज्ञया इति, क्रियाविशेषमेतत्, चरन्- गच्छन्, तुरेवकारार्थः, अयतमेव चरन्, ईर्यासमितिमुल्लङ्घध्य, न त्वन्यथा, किमित्याह- 'प्राणिभूतानि हिनस्ती' प्राणिनो - द्वीन्द्रियादयः भूतानि - एकेन्द्रियास्ता हिनस्ति प्रमादानाभोगाभ्यां व्यापादयतीति भावः, तानि च हिंसन् 'बन्धाति पापं 'कर्म' अकुशलपरिणामादादत्ते क्लिष्टं ज्ञानावरणीयादि, 'तत् से भवति कटुकफलं' तत्-पापं कर्म से - तस्यायतचारिणो भवति, कटुकफलमित्यनुस्वारोऽलाक्षणिक : अशुभफलं भवति, मोहादिहेतुतया विपाकदारुणमित्यर्थः, मू. (४८) अजयं चिट्ठमाणो अ, पाणभूयाई हिंसइ । बंधई पावयं कम्मं, तं से होइ कडुअंफलं ॥ ऊर्ध्वस्थानेनासमाहितो हस्तपादादि विक्षिपन्, शेषं पूर्ववत् ॥ अजयं आसमणो अ, पाणभूयाइ हिंसइ । बंधई पावयं कम्मं तं से होइ कडुअंफलं ॥ वृ. एवमयतमासीनो - निषण्णतया अनुपयुक्त आकुञ्चनादिभावेन, शेषं पूर्ववत् । मू. (५०) अजयं सयमाणो अ, पाणभूया इं हिंसइ । बंधई पावयं कम्मं, तं जे होई कडुअफलं ॥ असमाहितो दिवा प्रकामशय्यादिना (वा), शेषं पूर्ववत् अजयं भुंजमाणो अ, पाणभूयाइ हिंसइ । बंधई पावयं कम्मं तं से होइ कडुअंफलं ॥ वृ. एवमयतं तिष्ठन् मू. (४९) वृ. एवमयतं स्वपन् मू. (५१) - वृ. एवमयतं भुञ्जानो - निष्प्रयोजनं प्रणीतं काकशृगालभक्षितादिना (वा), शेषं पूर्व-वत्॥ अजयं भासमाणो अ, पाणभूयाइ हिंसइ । बंधई पावयं कम्मं तं से होइ कडुअंफलं ॥ मू. (५२) For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003331
Book TitleAgam Suttani Satikam Part 27 Dasvaikaalika
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages284
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy