________________
३५,
स्तुति तरंगिणी प्रचुररोचिररोऽचिररोचित-, प्रवरमोक्षरमोऽक्षतकेवलः । वशमदः शमदः शमदः पर, नतिमतोऽतिमतो नयतु प्रभुः ॥१८॥ वरतमालतमालदलप्रभा, सततमाऽऽनतमानवदानवा । हरतु मल्लिरमाररमा रज-, स्त्रिजगतः शरणं शरणं श्रियः ॥१९॥ *निबिडमान-मनन-सप्रम! क्षपय मोक्षद ! मोक्षदयामृतैः । स मुनिसुव्रत ! सुव्रत ! सजना-, म्बुजसुमित्र ! सुमित्र ! सुमित्रभूः ॥२०॥ अॅकलिलः कलिलक्षवितक्षणः, संकल-मुत्कलमुत्पललक्षणः । गवि पदं विपदं विपदन्तक-, नमिरमॅन्दरमं ददतां जिनः ॥२१॥ सुकविराजिविराजितसंसदा,
स्तुतमसन्तमसं तमस सदा । १. शाश्वतम् । २. पापमल । ३. त्वं क्षपय इत्यन्वयः । ४. पूजितसुहृत् । ५. कर्माऽस्पृष्टः । ६. पञ्चानंतकलक्ष्मीर्यस्य । ७. सर्वविदानंदमयम् । ८. राज्यश्रीरहितम् ।
Jain Education International
For Private & Personal Use Only
___www.jainelibrary.org