________________
स्तुति तरंगिणी
अनवम नवमं नवमङ्गलं, *विदधतं दधतं च रुचिं शुचिम् । जिन मिह स्मरत स्मरतक्षणं, सुविधिमारतमारततक्षणम्
॥९॥ दृढरथाऽङ्गज ! नन्द जनंदर-, प्रशमनः शमनं शमनस्तमः । दशमतीर्थप ! रागपरागतः, समव शीतल ! शीतललेश्य ! माम् ॥१०॥
_(शालिनी) देवः श्रीमद्विष्णुविष्णुप्रसूतः, कामं कामं धंसमानः समानः । धर्म दद्याद् धाम धामवजस्य, श्रीश्रेयांसः श्रीसनाथः स नाथः ॥११॥ विद्यां दद्यादप्रमादः प्रमोदः, क्लप्तव्याधिक्षिप्रसादप्रसादः । शोणाश्मश्रीः सप्रभावः प्रभावः-, स्तीर्थस्वामी वासुपूज्यः सुपूज्यः ॥१२॥ त्वममदाऽमम! दारितसबम-,
नृभवलक्ष! बलक्ष बलक्षम ! । १. अवद्यर्जितम् । २. अनुदीपयन्तम् । ३. निवृत्तो मारो मरणं यस्मात् ४. सुनयन् । ५. प्रमामादत्ते इति प्रमादः । ६. पभरागमणि ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org