________________
स्तुति तरंगिणी भवनिवासकुवासनिवारकं, गतदरं करुणारससागरम् । नवसरोजविभासितभूतलं, जिनवरं सुमतिं प्रणमामि तम् ॥५॥ जनसरोजविकाशनभोमणे ! क्रमसरोजमथावितभूतलम् । कमललाञ्छन ! शोणतनुश्रुते ! वरमरालगते प्रणमामि ते ॥६॥ भवनिवासनिदाघघनाघनं, सुरनराधिप-मण्डल-सेवितम् । जितमयं वर-सौख्यकरं सदा, किल नमामि सुपार्श्वजिनाधिपम् ॥७॥ प्रणतदेवनराधिपमण्डली-, भुवनभासुरचन्द्रनिषेवितः । प्रकटिताखिलसिद्ध-निकेतनो, विजयतां वर चन्द्ररुचिर्जिनः ॥८॥ प्रवरदानवदेव-निषेवितं, सकल-जीवविनाशित-संशयम् । त्रिदशपूजितपादयुगं मुदा, सुविधिनाथ जिनं प्रणमाम्यहम् ॥९॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org