________________
स्तुति तरंगिणी
दिशतु गोमुख गोमुखमण्डन
क्षिपतु यक्षपते मम पातकम् जिनमतं नमतं कुमतिजनै
विकलिभिः कलिभीतिभिरंकितैः ॥४॥
(आचार्यश्री जंबूसरिजी महाराज डभोई)
(स्रग्धरा वृत्तम् ) दन्तश्रेणीप्रमाऽधानकुमुदहसत्क्षीरवचन्द्र चन्द्रः , स श्रीमानादिनाथः प्रभवतु भविनां भावुकाय प्रकामम् । यत्य व्याख्यानकाले किरति सुरगणः पुष्पवृष्टिं विचित्रां आमूलालोलधूलिबहुलपरिमलालीढलोलालिमाला ॥१॥ प्रोद्यद्गंभीरकायप्रतिजितसलिलाम्भोधरे हारहीरतारस्काराब्जरोचिस्सुयशसि भवति प्रोल्लसच्चक्षुषी मे। दृष्ट नायाति शोको वृषभजिनपते गन्धमालोलभृङ्ग झंकारारावसारा - मलदलकमलागारभुमी - निवासे ॥२॥ संसारापारपायोनिधिपुलिनमहो प्राप्तुकामा यदि स्युः श्रीमत्तीर्थाधिकर्तुः क्रमणकजयुगं तस्य संसेवमानाः । गात्रे यस्य प्रवेशं वरगुणततयश्चक्रिरे विश्वपूज्ये च्छायासम्भारसारे वरकमलकरे तारहाराभिरामे ॥३॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org