________________
श्रीशाश्वताशाश्वताजिनस्तुतयः
: ४०५ : +[९४३] अङ्गानाप्रविष्टं भवजलधिगतानन्तजन्तुप्रयानं, वन्धं वन्दे मुनीनां सकलगुणनिधि तीर्थमाचं श्रुतं तत् ॥ ३ ॥ इन्दाद्या देवलोके सुरगणसहिता ज्योतिषश्चन्द्र ताराः, पाताले ये च सन्ति चमरबलयुता व्यन्तराश्चाष्ठभेदा । देवा देव्यः समस्ता जिनवचनरता नित्यदत्तावधाना, शन्ति कुर्वन्तु सङ्के प्रतिदिनमसकृत् दुःषमायां समायाम् ॥ ४ ॥
+ २ ( स्रग्धरा) द्वीपे जम्बाह्वये ये जितमदनबला: केवलालोकभाजो, द्वीपे ये च द्वितीये सुखमयविषये पुष्कराद्धं तथा ये । भावार्हन्तो जयेयुः समवसरणगा धर्मरत्नं दिशन्तस्तेभ्यो भूयादजस्रं त्रिकरणविहितो मामकीनः प्रणामः ॥ १ ॥ पाताले श्रीविशाले भवनपतिसुधान्धोनिवासान्तराले, तिर्यग् द्विपेषु ताराग्रहवनगिरिषु व्यन्तराणां पुरेषु । ऊवं वैमानिकानां निरुपमगृहगाः स्थापनार्हत्समूहाः, विद्यन्तेऽनेकधा ये त्रिभुवनतिलकास्तान्नमस्कुर्महेऽत्र ॥ २ ॥ कृत्स्नं यत्रास्ति वस्तु प्रणिगदितमिदं द्रव्यपर्यायरूपं, ज्ञानं स्वान्यप्रकाशि प्रदलितसकलाऽऽदी नवं व प्रमाणम् । कर्ता भोक्ता प्रमाता चतसृषु गतिषूत्यत्तिमांश्चितत्स्थरूपं, श्रीसिद्धान्तं नितान्तं जिनपतिगदितं तं भजामः स्मरामः ॥ ३ ॥ देवश्रीवर्द्धमानक्रमकमलयुगाराधने काग्रचित्ता, या देवी दिव्यरूपा करतलविलसञ्चक्र चापा विपापा ।
१ ताराग्रह पदेन सकलज्योतिष्कोपलक्षणम् । २ दोषाः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org