SearchBrowseAboutContactDonate
Page Preview
Page 552
Loading...
Download File
Download File
Page Text
________________ बीसिद्धचक्रस्तुतयः ५१७ एकादश्यादिपर्वेन्दुमणिमतिदिशन् धीवराणां महाय, सन्यायाम्भश्च नित्यं प्रवितरतु स नः स्वप्रतिरे निवासम् ॥३॥ तत्पर्वोद्यापनार्थ समुदितसुधियां शम्भुसङ्ख्या प्रमेयामुत्कृष्टां वस्तुवीथिमभयदसदने प्राभृतीकुर्वतां ताम् । तेषां सव्याऽक्षपादैः प्रलपितमतिभिः प्रेतभूतादिभिर्वा, दुष्टैर्जन्यं त्वजन्यं हरतु हरितनुन्यस्तपादाऽम्बिकाऽऽख्या ॥४॥ अथ श्रीसिद्धचक्रस्तुतयः। १ (स्रग्धराछन्दः ) अर्हन् मूलं प्रकाण्डोऽतनुनिकरधरः सूरिराजश्वशाखा, गुल्मः सद्वाचकेशो दलततिपरिधिः साधवो मञ्जरीचित् । पुष्पौधो दर्शनं चाऽभिमतपरिमलश्चारुचारित्ररूपः, शस्तं सस्यं तपश्चाऽमरतरुरिव वः सिद्धचक्रं पुनातु ॥१॥ आप्ताः सिद्धा मुनीन्द्राः प्रवरमुनिवराः वाचकाः साधवश्व, श्वेता रक्ताश्चपीता बुधसमहरिताः कजलाभा जिनेशाः । चञ्चत्पुष्पाग्रपत्रच्छवि कनकरजः पर्णरोलम्बमाना। गीर्वाणा गा इवेष्टं सकलमतिमता पावनं संदिशन्तु ।।२।। सा वाणी गृहनेत्राद्विधनपरिमिताः कर्मनिर्मूलकानामाचार्याणां रसत्रिनव नवमुनयो वाचकानां मुनीनाम् । विंशत्या सप्तयुक्ता मुनिकृतिसहिता नेत्रसङ्ख्या चतुणों, षष्ठेराब्धिस्वशक्तिर्गगनशरमिता: सद्गुणौघा जयन्ति ॥३।। देवेन्द्रा अष्टवर्गा ग्रहगणसहिता गोमुखाद्याः परेऽपि, चक्रेश्वर्यादिदेव्योऽपि च कुशलकराः सिद्धचक्रस्य भक्ताः । १ निजपार्श्व । २ अजन्य-उपद्वम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003302
Book TitleStuti Tarangini Part 01
Original Sutra AuthorN/A
AuthorBhadrankarsuri
PublisherLabdhi Bhuvan Jain Sahitya Sadan
Publication Year
Total Pages564
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy