________________
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका ढुण्ढिका । [करोमि] कृ । वर्त० मिव् । 'कृग्-तनादेरुः' (३।४।८३) उप्र० । 'नामिनो गुणोऽक्डिति' (४।३।१) गु० अर् । 'उ-श्नोः ' (४।३।२) गु० ओ ।
कुर्मीत्यत्र मतान्तरेण उलुक् ।
[कृणुयात् 'कुंगटु हिंसायाम्' (१२९३) कृ । सप्तमी यात् । 'स्वादे: श्नुः' (३।४।७५) श्नुप्र० →नु । 'र-पृवर्णान्नो ण एकपदेऽनन्त्यस्याऽल-च-ट-तवर्ग-श-सान्तरे' (२।३।६३) न० -→ ण० ।
[कृणुवः, कृणुमः] 'कंग्ट् हिंसायाम्' (१२९३) कृ । वर्त० वस्-मस् । ‘स्वादेः श्नुः' (३।४।७५) श्नुप्र० → नु । 'स्-पृवर्णान्नो ण०' (२।३।६३) न० → ण० ।।छ।।
अतः शित्युत् ।।४।२८९।। [अतः] अत् षष्ठी डस् । [शिति श् इदनुबन्धो यस्याऽसौ शित्, तस्मिन् । [उत्] उत् प्रथमा सि ।
[कुरुतः] 'डुकंग करणे' (८८८) कृ । वर्त्त० तस् । 'कृग-तनादेरुः' (३।४।८३) उप्र० । 'नामिनो गुणोऽक्डिति' (४।३।१) गु० अर् । अनेन अ० → उ० ।
कुर्वन्ति कृ । वर्त० अन्ति । 'कृग-तनादेरुः' (३।४।८३) उप० । 'नामिनो गुणोऽक्डिति' (४१३१) गु० अर् । अनेन अ० → उ० । 'इवर्णादरस्वे स्वरे य-व-र-लम्' (१।२।२१) वत् ।
[कुरु] कृ । पञ्चमी हि । 'कृग्-तनादेरुः' (३।४।८३) उप्र० । 'नामिनो गुणोऽक्डिति' (४।३।१) गु० अर् । अनेन अ० → उ० । 'असंयोगादोः' (४।२।८६) हिलुक् ।
कुरुताम] कृ । पञ्चमी ताम् । 'कृग-तनादेरुः' (३।४।८३) उप्र० । 'नामिनो गुणोऽक्डिति' (४।३।१) गु० अर् । अनेन अ० → उ० ।
कुर्यात कृ । सप्तमी यात् । 'कृग-तनादेरुः' (३।४१८३) उप० । 'नामिनो गुणोऽक्डिति' (४।३१) गु० अर् । अनेन अ० → उ० । 'कृगो यि च' (४।२।८८) उलुक् ।
[अकुरुताम्] कृ । ह्यस्तनी ताम् । 'कृग्-तनादेरुः' (३।४।८३) उप्र० । 'नामिनो गुणोऽक्डिति' (४।३।१) गु० अर् । अनेन अ० → उ० । 'अड् धातोरादिद्यस्तन्यां चाऽमाङ' (४।४।२९) अट् ।
कुर्वन करोतीति । 'शत्रानशावेष्यति तु सस्यौ' (५।२।२०) शतृप्र० →अत् । 'कृग-तनादेरुः' (३।४।८३) उप० । 'नामिनो गुणोऽक्डिति' (४।३।१) गु० अर् । अनेन अ० → उ० । 'इवर्णादेरस्वे०' (१।२।२१) वत् । प्रथमा सि । 'ऋदुदितः' (१।४७०) नोऽन्तः । 'दीर्घड्याब्०' (१।४।४५) सिलुक् । 'पदस्य' (२।१९८९) तलोपः ।
[कुर्वाणः] कृ । कुरुते । 'शत्रानशावेष्यति तु सस्यौ' (५।२।२०) आनश्प्र० → आन । 'कृग-तनादेरुः' (३।४।८३) . उप० । 'नामिनो गुणोऽक्डिति' (४।३।१) गु० अर् । अनेन अ० → उ० । ‘इवर्णादेरस्वे०' (१।२।२१) वत् । 'र-पृवर्णान्नो
ण०' (२।३।६३) न० →ण० । प्रथमा सि ।
Jain Education Intemational
For Private & Personal Use Only
For Private & Personal Use Only
www.jainelibrary.org