SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ ४४ श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका ढुण्ढिका । दंश-सञ्जः शवि ।।४।२।४९।। [दंशसञ्जः] दंशश्च सञ् च = दंशसञ्, तस्य । [शवि] शव् सप्तमी ङि । [दशति] 'दंशं दशने' (४९६) दंश् । वर्त० तिव । 'कर्तर्यनद्भ्यः शव' (३।४।७१) शव । अनेन नलोपः । [सजति] ‘षजं सङ्गे (१७३) पञ् । 'षः सोऽष्ट्यै-ष्ठिव-ष्वष्कः' (२।३।९८) सञ् । वर्त० तिव् । 'कर्त्तर्यनद्भ्यः शव्' (३।४।७१) शव् । अनेन नलोपः । तुदादावपठित्वानयोदिौ पाठः शवर्थः । तुदादिपाठे पूर्वेणैव नलोपो भवति, तेन [दशन्ती] दशतीति । ‘शत्रानशावेष्यति तु सस्यौ' (५।२।२०) शतृप्र० → अत् । ‘कर्त्तर्यनद्भ्यः शव्' (३।४।७१) शव् । 'अधातूदृदितः' (२।४।२) डी । 'श्य-शवः' (२।१।११६) अत्० → अन्त्० । अनेन नलोपः ।।छ।। [सजन्ती] सजतीति । 'शत्रानशा०' (५।२।२०) शतृप्र० → अत् । 'कर्त्तर्य० (३।४।७१) शव् । 'अधातूदृदितः' (२।४।२) डी । 'श्य-शवः' (२१११६) अत्० → अन्त० । अनेन नलोपः ।।छ।। अकट्-धिनोश्च रञ्जः ।।४।२।५०॥ [अकघिनोः] अकट् च घिन् च = अकघिनौ, तयोः = अकघिनोः । सप्तमी ओस् । [च] च प्रथमा सि । [रञ्जः] रञ्जि षष्ठी डस् । [रजकः] 'रञ्जी रागे' (८९६) रञ् । रजतीत्येवंशीलः । 'नृत्-खन्-रञ्जः शिल्पिन्यकट्' (५।१।६५) अकट्प्र० → अक । अनेन नलोपः । [रागी] रअ । रजतीत्येवंशीलः । 'युज-भुज-भज-त्यज-रज-द्विष-दुष-दुह-दुहाऽभ्याहनः' (५।२।५०) घिनणप्र०→इन् । अनेन नलोपः । 'ञ्णिति' (४।३।५०) उपान्त्यवृद्धिः । तेऽनिटश्च-जोः क-गौ घिति' (४।१।१११) ज० → ग० । [रजति रञ् । वर्तः तिव् । 'कर्त्तर्यनद्भ्यः शव्' (३।४।७१) शव् । अनेन नलोपः । [रजः] रजतीति । 'मिथि-रज्युषि-तृ-पृ-शृ-भू-वष्टिभ्यः कित्' (उणा० ९७१) कित् अस्प० । [रजनिः] रजतीति । ‘रजेः कित्' (उणा० ६८१) कित् अनिप्र० । [रजनम] रजतीति । 'तुदादि-वृजि-रञ्जि-निधाभ्यः कित्' (उणा० २७३) कित् अनप्र० । [रजतम रजतीति । 'पृषि-रञ्जि-सिकि-का-ला-वृभ्यः कित्' (उणा० २०८) कित् अतप्र० । सर्वत्र 'नो व्यञ्जनस्याऽनुदितः' (४।२।४५) नलोपः । कित्प्रत्ययान्ता अमी ।।छ।। णौ मृगरमणे ।।४।२।५१॥ [णौ] णि सप्तमी ङि । [मृगरमणे] मृगाणां रमणं = मृगरमणम्, तस्मिन् । PF अकट् च घिनण् च = अकट्धिनणौ । Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org
SR No.003294
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 04
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2011
Total Pages408
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy