________________
४२
wwwwwwwwwwwwwwwwwwwww
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका दुण्ढिका । ध्वंस०' (४।१।५०) “नी" आगमः । वर्त० ते । ‘कर्त्तर्यनद्भ्यः शव्' (३।४।७१) शव् । 'लुगस्यादेत्यपदे' (२।१।११३) अलोपः ।
[अस्तभत्] 'स्तम्भू स्तम्भे' (१९८५) स्तम्भ इति सौत्रो धातुः । अद्यतनी दि →त् । 'ऋदिच्छ्वि-स्तम्भू-मुचू-म्लुचूगुचू-ग्लुचू-ग्लुच-जो वा' (३।४।६५) अड्य० → अ । अनेन नलोपः । 'अड् धातोरादि०' (४।४।२९) अट् ।
[अग्लुचत् वशू (१०६) - चञ्चू (१०७) - तशू (१०८) - त्वशू (१०९) - मशू (११०) - मुशू (१११) - मुशू (११२) - मुचू (११३) - म्लुचू (११४) - ‘ग्लुशू गतौ' (११५) ग्लुथ् । अद्यतनी दि → त् । 'ऋदिच्छ्वि-स्तम्भू-मुचूम्लुचू-गुचू-ग्लुचू-ग्लुशू जो वा' (३।४।६५) अड्म० → अ । अनेन नलोपः । 'अड् धातोरादि०' (४।४।२९) अट् ।
[परिष्वजते] ‘ष्वअिंत् सङ्गे' (१४७१) ष्वञ्, परिपूर्व० । वर्त्त० ते । 'तुदादेः शः' (३।४।८१) शप्र० → अ । 'स्वआश्च' (२।३।४५) षत्वम् ।
[परिष्वजेते] 'ष्वअिंत् सङ्गे' (१४७१) ष्वङ्ग्, परिपूर्व० । वर्त्तः आते । 'तुदादेः शः' (३।४।८१) शप्र० → अ । 'आतामाते-आथामाथे आदि:' (४।२।१२१) आ० → इ० । 'अवर्णस्ये०' (१९२१६) ए । 'स्वअश्च' (२।३।४५) षत्वम् ।
[नीयते] ‘णींग् प्रापणे' (८८४) णी । 'पाठे धात्वादेर्णो नः' (२।३।९७) नी । वर्त० ते । ‘क्यः शिति' (३।४।७०) क्यप्र० → य ।
ननीयते] नी । भृशं पुनः पुनर्वा नयति । 'व्यञ्जनादेरेकस्वराद' (३।४।९) यप्र० । 'सन्-यडश्च' (४।१३) "नी"द्वि: । हूस्वः' (४।१।३९) ह्रस्वः । 'आ-गुणावन्यादेः' (४।१।४८) गु० ए । वर्त० ते । 'कतर्यनद्भ्यः शव' (३।४।७१) शव । 'लुगस्यादेत्यपदे' (२।१११३) अलोपः ।
[नन्द्यते] 'टुनदु समृद्धो' (३१२) नद् । 'उदितः स्वरान्नोऽन्तः' (४।४।९८) नोऽन्तः । वर्त्त० ते । 'क्यः शिति' (३।४७०) क्यप्र० → य ।
नानन्द्यते नन्द । भृशं पुनः पुनर्वा नन्दति । 'व्यञ्जनादेरेकस्वराद्' (३।४।९) यङ्प्र० । 'सन्-यडश्च' (४।१३) द्विः । 'आ-गुणावन्यादेः' (४।१।४८) आ । वर्त० ते । 'कर्त्तर्यनद्भ्यः शव्' (३।४।७१) शव् । 'लुगस्यादेत्यपदे' (२।१।११३) अलोपः ।
[संसिता] संस् । श्वस्तनी ता । 'स्ताद्यशितोऽत्रोणादेरिट' (४।४।३२) इट् । [ध्वंसिता] ध्वंस् । श्वस्तनी ता । ‘स्ताद्यशितोऽत्रोणादेरिट' (४।४।३२) इट् ।
[नहाते] 'णहीच बन्धने' (१२८५) णह । 'पाठे धात्वादेर्णो नः' (२१३।९७) नह । वर्त्त० ते | "दिवादे: श्यः' (३।४।७२) श्यप्र० → य ।
[नानहाते] नह । भृशं पुनः पुनर्वा नह्यते । 'व्यञ्जनादेरेकस्वराद्' (३।४।९) यङ्प्र० । 'सन्-यडश्च' (४।१।३) द्विः । 'आ-गुणावन्यादेः' (४११४८) आ । वर्त्तते । 'कर्त्तर्यनद्भ्यः शव' (३।४।७१) शव । 'लुगस्यादेत्यपदे' (२१११३) अलोपः ||छ।।
अञ्चोऽनर्चायाम् ॥४।२।४६।। [अञ्चोऽनायाम्] अच्() षष्ठी ङस् । न अर्चा = अनर्चा | 'अन् स्वरे' (३।२।१२९) अन्, तस्याम् । 'आपो डितां यै-यास्-यास-याम्' (१।४।१७) डि० → याम० ।
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org