________________
अथ चतुर्थाध्यायस्य द्वितीयः पाद: ॥
२१
लाडयति] 'लड जिह्वोन्मन्थने' (१०३६) लड् । लडन्तं प्रयुक्ते । 'प्रयोक्तृव्यापारे णिग' (३।४।२०) णिगप्र० । 'ञ्णिति' (४।३।५०) उपान्त्यवृद्धिः आ । विनाशयतीत्यर्थः ।
[छादयति] 'छदण अपवारणे' (१९६४) छद् । 'चुरादिभ्यो णिच्' (३।४।१७) णिच्प्र० । 'णिति' (४।३।५०) उपान्त्यवृद्धिः आ । आवृणोति (इत्यर्थः) ।
[प्रमादयति] 'मदै हर्ष-ग्लपनयोः' (१०४८) मद्, प्रपूर्व० । प्रमाद्यन्तं प्रयुक्ते । 'प्रयोक्तृव्यापारे णिग्' (३।४।२०) णिगप्र० । 'णिति' (४।३५०) उपान्त्यवृद्धिः आ । प्रमादं कारयतीत्यर्थः ।
[ध्वानयति] 'ष्टन' (१०४९) - ‘स्तन' (१०५०) - 'ध्वन शब्दे' (१०५१) ध्वन् । ध्वनन्तं प्रयुक्ते । 'प्रयोक्तृव्यापारे णिग्' (३।४।२०) णिग्प्र० । 'ञ्णिति' (४।३।५०) उपान्त्यवृद्धिः आ । ज्ञापयति गमयतीत्यर्थः ।
[स्वानयति] 'स्वन अवतंसने' (१०५२) स्वन् । स्वनन्तं प्रयुङ्क्ते । ‘प्रयोक्तृव्यापारे णिग्' (३।४।२०) णिग्प० । 'ञ्णिति' (४।३।५०) उपान्त्यवृद्धि: आ । शब्दं करोतीत्यर्थः ।
[चालयति] 'चल कम्पने' (१०५५) चल् । यत्र चालना प्रयोगः । चालनानः चालयेत्, तत्र चलनं = चालः । घञ्प्र० । चालं करोतीति । 'णिज्बहुलं नाम्नः कृगादिषु' (३।४।४२) णिज्(च)प्र० । 'चन्त्यस्वरादेः' (७।४।४३) अलोपः । दूषयतीत्यर्थः ।
कगादीनां तु अर्थविशेषो नोपादीयते, पूर्वेण सूत्रेण सह भिन्नकरणत्वात् ।।छ।।
अमोऽकम्यमि-चमः ।।४।२।२६।। [अमः] अम् षष्ी डस् । [अकम्यमिचमः] कमिश्च अमिश्च चम् च = कम्यमिचम्, न कम्यमिचम् = अकम्यमिचम्, तस्य ।
[रमयति] 'रमिं क्रीडायाम' (९८९) रम् । रममाणं प्रयुक्ते । 'प्रयोक्तव्यापारे णिग्' (३।४।२०) णिगप० । 'ञ्णिति' (४।३।५०) उपान्त्यवृद्धिः । अनेन ह्रस्वः ।
[अरामि, अरमि] रममाणं प्रायुक्त । प्रयोक्तृव्यापारे णिग्' (३।४।२०) णिगप० । “णिति' (४।३।५०) उपान्त्यवृद्धिः । अनेन ह्रस्वः । अद्यतनी त । 'भाव-कर्मणोः' (३।४।६८) जिच्-तलोपश्च । अनेन वा दीर्घः । 'अड् धातोरादि०' (४।४।२९) अट् ।
-
[रामरामम, रमरमम] रम् । अभीक्ष्णं रमणं पूर्वम् । 'ख्णम्-चाभीक्ष्ण्ये' (५।४।४८) ख्णमप्र० । अनेन वा दीर्घः । 'णेरनिटि' (४।३।८३) णिग्लोपः । 'भृशा-5ऽभीक्ष्ण्या -ऽविच्छेदे०' (७।४।४३) द्वित्वम् ।
[दमयति] 'शमू' (१२३०) - ‘दमूच्' उपशमे (१२३१) दम् । दाम्यन्तं प्रयुक्ते । ‘प्रयोक्तृव्यापारे णिग्' (३।४।२०) णिगप० । 'ञ्णिति' (४।३।५०) उपान्त्यवृद्धिः आ । अनेन ह्रस्वः ।
[अदामि, अदमि दम् । अदमत् कश्चित, सो देमिवान् अन्येन प्रायोजि । 'प्रयोक्तृव्यापारे णिग' (३।४।२०) णिगप्र० । 'ञ्णिति' (४।३।५०) उपान्त्यवृद्धिः । अनेन ह्रस्वः । अद्यतनी त । ‘भाव-कर्मणोः' (३।४।६८) जिच्-तलोपश्च । अनेन वा दीर्घः ।
[दामंदामम्, दमंदमम्] दम् । अभीक्ष्णं दमनं पूर्वम् । 'रुणम्-चाभीक्ष्ण्ये' (५।४।४८) ख्णम्प० । अनेन वा दीर्घः । 'भृशा-5ऽभीक्ष्ण्या -ऽविच्छेदे द्वि:०' (७।४।७३) द्विः ।
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org