SearchBrowseAboutContactDonate
Page Preview
Page 365
Loading...
Download File
Download File
Page Text
________________ ३४८ श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका दुण्ढिका । [बुभूर्षति] 'टुडु,गक पोषणे च' (११४०) भृ । भर्तुमिच्छति । 'तुमर्हादिच्छायां०' (३।४।२१) सनप्र० । 'नामिनोऽनिट्' (४।३।३३) इति सन्किद्वत् । ‘स्वर-हन-गमोः सनि धुटि' (४११०४) दीर्घः । अनेन उर् । 'सन्-यडश्च' (४।१।३) द्विः । 'द्वितीय-तुर्ययोः पूर्वी' (४।१।४२) भु० → वु० । 'भ्वादेर्नामिनो०' (२।१।६३) दीर्घः । षत्वम् । मुमूर्षति] 'मृत् प्राणत्यागे' (१३३३) मृ । मर्तुमिच्छति । 'तुमर्हादिच्छायां०' (३।४।२१) सन्प्र० । 'स्वर-हन-गमोः सनि धुटि' (४।१।१०४) दीर्घः । अनेन उर् । 'सन्-यडश्च' (४।१३) द्वि: । 'भ्वादे मिनो०' (२११६३) दीर्घः । 'नाम्यन्तस्थाकवर्गात् पदान्तः कृतस्य सः शिड्-नान्तरेऽपि' (२।३।१५) षत्वम् । दन्त्यौष्ठ्योऽप्योष्ठ्यः, तेन [वुवूर्णते] 'वृश् सम्भक्तौ' (१५६७) वृ । वरितुं वरीतुं वा इच्छति । 'तुमर्हादिच्छायां०' (३।४।२१) सन्प्र० । 'स्वरहन-गमोः सनि धुटि' (४।१।१०४) दीर्घः । अनेन उर् । 'सन्-यङश्च' (४।१।३) द्वि: । 'भ्वादेर्नामिनो०' (२।१।६३) दीर्घः । 'नाम्यन्तस्था-कवर्गात्०' (२।३।१५) षत्वम् । [प्रावुवूर्षति] वृ, प्र-आङ्पूर्व० । प्रावरितुं प्रावरीतुं वा इच्छति । 'तुमर्हादिच्छायां०' (३।४।२१) सन्प्र० । 'स्वर-हनगमोः सनि धुटि' (४।१।१०४) दीर्घः । अनेन उर् । 'सन्-यडश्च' (४।१।३) द्विः । 'भ्वादेर्नामिनो०' (२।१।६३) दीर्घः । 'नाम्यन्तस्था०' (२।३।१५) षत्वम् । वर्त० तिव् । 'कतर्यनद्भ्यः शव' (३।४।७१) शव । [समीर्णम्] 'ईरिक गति-कम्पनयोः' (१११५) ईर्, सम्पूर्व० । समीर्यते स्म । ‘क्त-क्तवतू' (५।१।१७४) क्तप्र० → त । 'रदादमूर्च्छ-मदः क्तयोर्दस्य च' (४।२।६९) त० → न० । 'र-वर्णान्नो ण०' (२१३।६३) न० → ण । सि-अम् । [निपरणम् नि-पू । निपूर्यते । 'अनट' (५।३।१२४) अनट्प्र० → अन । 'नामिनो गुणोऽक्ङिति' (४।३।१) गु० अर् । [निपारकः] निपृणातीति । ‘णक-तृचौ' (५।१।४८) णकप्र० → अक | 'नामिनोऽकलि-हलेः' (४।३।५१) वृ० आर् । पृण-मृणोर्यङ्लुप् पृण-मृण मतान्तरे धातुः [परिपूर्णः] 'पृणत् प्रीणने' (१३६०) पृण । भृशं पुनः पुनर्वा पृणतः । 'व्यञ्जनादेरेकस्वरा०' (३।४।९) यड्य० । 'सन्-यडश्च' (४।१।३) द्विः । 'ऋतोऽत्' (४।१।३८) ऋ० → अ० । 'बहुलं लुप्' (३।४।१४) यड्लुप् । 'रि-रौ च लुपि' (४।११५६) “रि" आगमः । वर्त० तस् । अनेन उर् । 'अहन्पञ्चमस्य क्वि-क्डिति' (४११०७) दीर्घत्वम् । [मरिमूर्णः] 'मृणत् हिंसायाम्' (१३६२) मृण् । भृशं पुनः पुनर्वा मृणतः । 'व्यञ्जनादेरेकस्वराद्' (३।४।९) यङ्प्र० । 'सन्-यडश्च' (४।१।३) द्विः । 'ऋतोऽत्' (४1१३८) ऋ० → अ० । 'बहुलं लुप्' (३।४।१४) यङ्लुप् । 'रि-रौ च लुपि' (४११५६) "रि" आगमः । वर्त० तस् । अनेन उर् । 'अहन्पञ्चमस्य क्वि-क्ङिति' (४1१1१०७) दीर्घत्वम् । 'तवर्गस्य०' (१३।६०) त० → ट० (?) |छ।। इसासः शासोऽङ् - व्यञ्जने ।।४।४।११८।। [इस्] इस् प्रथमा सि । 'दीर्घझ्याब्-व्यञ्जनात् सेः' (१।४।४५) सिलुक् । [आसः] आस् षष्ठी इस् । [शासः] शास् षष्ठी ङस् । [अव्यञ्जने] अङ् च व्यञ्जनं च = अब्यञ्जनम्, तस्मिन् । Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org
SR No.003294
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 04
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2011
Total Pages408
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy