________________
३४६
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका ढुण्ढिका ।
मोऽन्तः । ‘क्यः शिति' (३।४।७०) क्यप्र० → य ।
[शयानः] 'शीक् स्वप्ने' (११०५) शी । शेते । ‘शत्रानशावेष्यति०' (५।२।२०) आनश्प्र० → आन । 'नामिनो गुणोऽक्डिति' (४।३।१) गु० ए । 'एदैतोऽयाय्' (१।२।२३) अय् ।
[भुञ्जानः] 'भुजंप पालना-ऽभ्यवहारयोः' (१४८७) भुज् । भुङ्क्ते । ‘शत्रानशावेष्यति०' (५।२।२०) आनश्प० → आन । 'रुधां स्वराच्श्नो नलुक् च' (३।४।८२) श्नप्र० → न । 'श्ना-ऽस्त्योर्मुक्' (४।२।९०) अलुक् ।
[पचन] 'डुपची पाके' (८९२) पच् । पचतीति । 'शत्रानशावेष्यति०' (५।२।२०) शतृप्र०→अत् । 'कर्त्तर्यनद्भ्यः शव्' (३।४।७१) शव । 'लुगस्यादेत्यपदे' (२।१।११३) अलुक् । प्रथमा सि । 'ऋदुदितः' (११४७०) नोऽन्तः । 'दीर्घड्याब' (१।४।४५) सिलुक् । 'पदस्य' (२/१९८९) तलोपः ।
अकारस्य अन्ते मस्य करणं 'म-व्यस्याः ' (४।२।११३) इत्याकारनिवृत्त्यर्थम् ।।छ।।
आसीनः ||४/४/११५||
(आसीनः] आसीन: अखण्डमिदं प्रथमान्तम् ।
[आसीनः] 'आसिक् उपवेशने' (१११९) आस् । आस्ते । 'शत्रानशावेष्यति तु सस्यौ' (५।२।२०) आनश्प्र० → आन । अनेन आ० → ई० ।
[उदासीनः] उदास्ते । 'शत्रानशावेष्यति०' (५।२।२०) आनश्प० → आन । अनेन आ० → ई० । [उपासीनः] उपास्ते । 'शत्रानशावेष्यति०' (५।२।२०) आनश्प्र० → आन । अनेन आ० → ई० । [अध्यासीनः] अध्यास्ते । ‘शत्रानशावेष्यति०'(५।२।२०) आनशप्र० → आन । अनेन आ० → ई० ॥छ।।
ऋतां विङतीर् ।।४।४।११६।। [ऋताम्] ऋच्च ३ = ऋतस्तेषाम् । [क्ङिति] क् च ङ् च = क्डौ, क्डावितावनुवन्धौ यस्याऽसौ विङत्, तस्मिन् । [इर्] इर् प्रथमा सि ।
[तीर्णम] 'तू प्लवन-तरणयोः' (२७) तू । तीर्यते स्म । 'क्त-क्तवतू' (५/११७४) क्तप्र० → त । 'ऋवर्ण-यूर्तुगः कितः' (४।४५७) इट न । अनेन इर् । 'ऋ-ल्वादेरेषां तो नोऽप्रः' (४।२।६८) त० → न० । 'भ्वादे मिनो दी| वोर्व्यञ्जने' (२।१।६३) दीर्घः । सि-अम् ।
[दीर्णम्] 'दृश् विदारणे' (१५३५) दृ । दीर्यते स्म । 'क्त-क्तवतू' (५।१।१७४) क्तप्र० → त । 'ऋवर्ण-घ्यूटुंगः' कितः' (४।४।५७) इट् न । अनेन इर् । 'ऋ-ल्वादेरेषां तो नोऽप्रः' (४।२।६८) त० → न० । 'भ्वादे मिनो०' (२।१।६३) दीर्घः । सि-अम् ।
[आस्तीर्णम्] 'स्तृगश् आच्छादने' (१५२१) स्तू, आयूर्व० । आस्तीर्यते स्म । 'क्त-क्तवतू' (५।११७४) क्तप्र० → त । 'ऋवर्ण-श्यूटुंगः कितः' (४।४।५७) इट् न । अनेन इर् । 'ऋ-ल्वादेरेषां तो नोऽप्रः' (४।२।६८) त० → न० । 'भ्वादे मिनो०' (२।१।६३) 'दीर्घः । सि-अम् ।
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org