SearchBrowseAboutContactDonate
Page Preview
Page 357
Loading...
Download File
Download File
Page Text
________________ ३४० श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका ढुण्ढिका । [मामक्तः] मस्ज् । भृशं पुनः पुनर्वा मज्जतः । 'व्यअनादेरेकस्वराद् भृशाऽऽभीक्ष्ण्ये यङ् वा' (३।४।९) यड्प्र० । 'सन्-यडश्च' (४।१।३) द्विः । 'आ-गुणावन्यादेः' (४।१।४८) आ । अनेन स० → न० । 'नो व्यञ्जनस्याऽनुदितः' (४।२।४५) नलुक् । 'बहुलं लुप्' (३।४।१४) यङ्लुप् । 'च-जः क-गम्' (२११८६) ज० → ग० । 'अघोषे०' (११३५०) ग० → क० । [मज्जनम] मज्ज्यतेऽनेन । 'अनट्' (५।३।१२४) अनट्प्र० → अन(?) । ('करणाऽऽधारे' (५।३।१२९) अनट्प्र० → अन) । 'सस्य श-पौ' (१३।६१) स० → श० । 'तृतीयस्तृतीय-चतुर्थे' (१३।४९) श० → ज० छ।। अः सृजि-दृशोऽकिति ।।४।४।१११।। [अ] अ प्रथमा सि । [सृजिदृशः] सृजिश्च दृश् च = सृजिदृश्, तस्मात् । [अकिति] क् इदनुबन्धो यस्याऽसौ कित्, न कित् = अकित्, तस्मिन् । [स्रष्टा] 'सृजी(जं)त् विसर्गे' (१३४९) सृज् । सृजतीति । ‘णक-तृचौ' (५।१।४८) तृचप्र० → तृ । अनेन अकारागमः । 'इवर्णादरस्वे०' (११२।२१) रत् । प्रथमा सि । 'ऋदुशनस्०' (१९४९८४) सि० → डा० → आ० । 'डित्यन्त्यस्वरादेः' (२।१।११४) अन्त्यस्वरादिलोपः । 'यज-सृज-मृज-राज०' (२।१८७) ज० → प० । 'तवर्गस्य श्चवर्ग०' (१।३।६०) त० → ट० । __ [स्रष्टुम्] सृज् । सर्जनाय । ‘क्रियायां क्रियार्थायां तुम्' (५।३।१३) तुम्प्र० । अनेन अकारागमः । ‘इवर्णादरस्वे०' (१।२।२३) रत् । 'यज-सृज-मृज-राज०' (२१८७) ज० →ष० । 'तवर्गस्य श्ववर्ग-ष्टवर्गाभ्यां०' (१३।६०) त० → ट० । [स्रष्टव्यम्] सृज् । सृज्यते । 'तव्या-ऽनीयौ' (५।१।२७) तव्यप्र० । अनेन अकारागमः । 'इवर्णादेरस्वे०' (१।२।२१) रत् । 'यज-सृज-मृज-राज०' (२।१८७) ज० → ष० । 'तवर्गस्य श्चवर्ग०' (११३।६०) त० →ट० । [अस्राक्षीत्] सृज् । अद्यतनी दि → त् । ‘सिजद्यतन्याम्' (३।४।५३) सिच् । ‘सः सिजस्तेर्दि-स्योः' (४।३।६५) ईत् । अनेन अकारागमः । 'इवर्णादेरस्वे०' (१।२।२१) रत् । 'व्यञ्जनानामनिटि' (४।३।४५) वृ० आ । 'यज-सृज-मृज-राज ज०' (२/१९८७) ज०→ ष० । 'ष-ढोः कस्सि' (२।११६२) १० →क० । 'नाम्यन्तस्था-कवर्गात०' (२।३.१५) षत्वम् । क-षसंयोगे क्ष० । 'अड् धातोरादि०' (४।४।२९) अट् । [स्रक्ष्यति सृज् । भविष्यन्ती स्यति । अनेन अकारागमः । 'इवर्णादरस्वे०' (११२।२१) रत् । 'यज-सृज-मृज०' (२११८७) ज० → ष० । 'ष-ढोः कस्सि' (२।१९६२) १० → क० । 'नाम्यन्तस्था-कवर्गात् पदान्तः कृतस्य सः शिड़नान्तरेऽपि' (२।३।१५) षत्वम् । क-षसंयोगे क्ष० । [द्रष्टा] 'दृशुं प्रेक्षणे' (५९५) दृश् । पश्यतीति । 'णक-तृचौ' (५।११४८) तृचप्र० →तृ । अनेन अकारागमः । इवर्णादरस्वे०' (१।२।२१) रत् । प्रथमा सि । 'ऋदुशनस्-पुरुदंशो०' (१।४।८४) सि० → डा० → आ० । 'डित्यन्त्यस्वरादेः' (२।१।११४) अन्त्यस्वरादिलोपः । 'यज-सृज-मृज०' (२।१।८७) श० → ष० । 'तवर्गस्य श्चवर्ग०' (१।३।६०) तक →ट। [द्रष्टुम्] दृश् । दर्शनाय । ‘क्रियायां क्रियार्थायां तुम् णकच् भविष्यन्ती' (५।३।१३) तुम्प० । अनेन अकारागमः । Jain Education Intemational For Private & Personal use only www.jainelibrary.org
SR No.003294
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 04
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2011
Total Pages408
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy