________________
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका ढुण्डिका । २८६
[क्षोद्धा] 'क्षुधंच बुभुक्षायाम्' (११८२) क्षुध् । क्षुध्यतीति । ‘णक-तृचौ' (५।१।४८) तृच्प्र० → तृ, श्वस्तनी ता वा । 'लघोरुपान्त्यस्य' (४।३।४) गु० ओ । 'अधश्चतुर्थात्' (२।११७९) त० →ध० । 'तृतीयस्तृतीय-चतुर्थे' (१३।४९) ध० → द० ।
[क्षोद्धम] क्षुध् । क्षोधनाय । ‘क्रियायां क्रियार्थायां तुम०' (५।३।१३) तुमप्र० । 'लघोरुपान्त्यस्य' (४।३।४) गु० ओ । 'अधश्चतुर्थात् तथोर्धः' (२११७९) त० → ध० । 'तृतीयस्तृतीय-चतुर्थे' (१।३।४९) ध० → द० ।
[सेद्धा] 'षिधूंच संराद्धौ' (११८५) षिध् । 'षः सोऽष्ट्यै-ष्ठिव-ष्वष्कः' (२।३।९८) सिध् । सिध्यतीति । ‘णकतृचौ' (५११४८) तृचप्र० →तृ, श्वस्तनी ता वा । 'लघोरुपान्त्यस्य' (४।३४) गु० ए । 'अधश्चतुर्थात् तथोर्धः' (२१७९) त० → ध० । 'तृतीयस्तृतीय-चतुर्थे' (११३१४९) ध० → द० ।
[सेद्धम्] सिध् । सेधनाय । ‘क्रियायां क्रियार्थायां तुम्०' (५।३।१३) तुम्प्र० । 'लघोरुपान्त्यस्य' (४।३।४) गु० ए । 'अधश्चतुर्थात्' (२।१७९) त० → ध० । 'तृतीयस्तृतीय-चतुर्थे' (१।३।४९) ध० → द० ।
[हन्ता] ‘हनं हिंसा-गत्योः' (११००) हन् । हन्तीति । ‘णक-तृचौ' (५।१।४८) तृच्प्र० → तृ, श्वस्तनी ता वा । [हन्तुम्] हन् । हननाय । ‘क्रियायां क्रियार्थायां तुम्०' (५।३।१३) तुम्प्र० ।
[मन्ता] बुधिं (१२६२) - ‘मनिंच ज्ञाने' (१२६३) मन् । मन्यते । ‘णक-तृचौ' (५।११४८) तृच्प्र० →तु, श्वस्तनी ता वा । 'म्नां धुड्वर्गेऽन्त्योऽपदान्ते' (१1३।३९) अनुस्वारः ।
[मन्तुम्] मन् । मननाय । 'क्रियायां क्रियार्थायां तुम्' (५।३।१३) तुम्प्र० । 'म्नां धुड्वर्गेऽन्त्योऽपदान्ते' (१।३।३९) अनुस्वारः ।
[आप्ता] 'आप्लँट व्याप्तौ' (१३०७) आप् । आप्नोतीति । ‘णक-तृचौ' (५११४८) तृचप्र० →तृ, श्वस्तनी ता वा । [आप्तुम्] आप् । आपनाय । ‘क्रियायां क्रियार्थायां तुम्०' (५।३।१३) तुम्प्र० ।
[तप्ता] 'तपं संतापे' (३३३) तप् । तपिच् ऐश्वर्ये वा' (१२६७) तप् । तपतीति । तप्यत इति । ‘णक-तृचौ' (५।१।४८) तृप्र० → तृ, श्वस्तनी ता वा ।
[तप्तुम्] तप् । तपनाय । ‘क्रियायां क्रियार्थायां तुम् णकच्' (५।३।१३) तुम्प्र० ।
[तर्ता] 'तृपट प्रीणने' (१३०८) तृप् । तृप्नोतीति(?) ('तृपौच प्रीतौ' (११८१) तृप् । तृप्यतीति) । ‘णक-तृचौ' (५।१४८) तृचप्र० → तृ, श्वस्तनी ता वा । 'लघोरुपान्त्यस्य' (४।३।४) गु० अर |
[तप्र्तुम्] तृप् । तर्पना(णा)य । ‘क्रियायां क्रियार्थायां तुम्' (५।३।१३) तुम्प्र० । 'लघोरुपान्त्यस्य' (४।३।४) गु० अर् ।
[शप्ता] 'शपीं आक्रोशे' (९१६) शप् । 'शपींच आक्रोशे' (१२८३) शप् । शपति, शप्यतीति वा । ‘णक-तृचौ' (५।१।४८) तृच्प्र० → तृ, श्वस्तनी ता वा ।
[शप्तुम्] शप् । शपनाय । ‘क्रियायां क्रियार्थायां तुम्०' (५।३।१३) तुम्प्र० ।
क्षिप्ता] 'क्षिपीत प्रेरणे' (१३१७) क्षिप । 'क्षिपंच प्रेरणे' (११५८) क्षिप । क्षिपति, क्षिप्यतीति वा । 'णक-तृचौ' (५।११४८) तृच्प्र० → तृ, श्वस्तनी ता वा । 'लघोरुपान्त्यस्य' (४।३।४) गु० ए ।
For Private & Personal Use Only
Jain Education Intemational
www.jainelibrary.org