________________
२८४
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका दुण्डिका । [छेत्तुम्] छिद् । छेदनाय । ‘क्रियायां क्रियार्थायां तुम्०' (५।३।१३) तुम्प्र० । 'लघोरुपान्त्यस्य' (४।३।४) गु० ए । 'अघोषे प्रथमोऽशिटः' (१।३।५०) द० → त० ।
तोत्ता] 'तुदीत् व्यथने' (१३१५) तुद् | तुदतीति । ‘णक-तृचौ' (५११४८) तृचप्र० → तृ, श्वस्तनी ता वा । ‘लघोरुपान्त्यस्य' (४।३।४) गु० ओ । 'अघोषे प्रथमोऽशिटः' (१।३।५०) द० → त० ।
[तोत्तुम्] तुद् । तोदनाय । ‘क्रियायां क्रियार्थायां तुम्०' (५।३।१३) तुम्प० । 'लघोरुपान्त्यस्य' (४।३।४) गु० ओ । 'अघोषे प्रथमोऽशिटः' (१३५०) द० → त० ।
[अत्ता] ‘अदं भक्षणे' (१०५९) अद् । अत्तीति । ‘णक-तृचौ' (५।१।४८) तृच्प्र० → तृ, श्वस्तनी ता वा । 'अघोषे प्रथमोऽशिटः' (११३५०) द० → त० ।
[अत्तुम्] अद् । अदनाय । ‘क्रियायां क्रियार्थायां तुम्०' (५।३।१३) तुम्प० । 'अघोषे०' (१।३।५०) द० → त० ।
[जिघत्सति] अद् | अत्तुमिच्छति । 'तुमर्हादिच्छायां सन्नतत्सनः' (३।४।२१) सन्प० । 'घस्लु सनद्यतनी-घञचलि' (४।४।१७) अद् → घस्तृ० → घस्० । 'सन्-यडश्च' (४।१।३) द्विः । 'द्वितीय-तुर्ययोः पूर्वी' (४।१।४२) घ० → ग० । 'ग-होर्जः' (४।१।४०) ग० → ज० । 'सन्यस्य' (४।११५९) इ । 'सस्तः सि' (४।३।९२) स० → त० । वर्त० तिन् । 'कर्तर्यनद्भ्यः शव्' (३।४।७१) शव् ।
[पत्ता] 'पद्च् िगतौ' (१२५७) पद् । पद्यते । ‘णक-तृचौ' (५।१।४८) तृच्प्र० → तृ, श्वस्तनी ता वा । 'अघोषे०' (११३५०) द० → त० ।
[पत्तुम्] पद् । पदनाय । ‘क्रियायां क्रियार्थायां तुम्०' (५।३।१३) तुम्प० । 'अघोषे प्रथमोऽशिटः' (१।३।५०) द० → त० ।
[हत्ता] 'हदिं पुरीषोत्सर्गे' (७२८) हद् । हदते । ‘णक-तृचौ' (५।१।४८) तृच्प्र० → तृ, श्वस्तनी ता वा । 'अघोषे०' (१३।५०) द० → त० ।
[हत्तुम्] हद् । हदनाय । ‘क्रियायां क्रियार्थायां तुम्०' (५।३।१३) तुम्प्र० । 'अघोषे०' (१।३।५०) द० → त० ।
[क्षोत्ता] 'क्षुद्रूपी संपेषे' (१४७९) क्षुद् । क्षुणत्तीति । ‘णक-तृचौ' (५।१।४८) तृच्प० → तृ, श्वस्तनी ता वा । 'लघोरुपान्त्यस्य' (४।३।४) गु० ओ । 'अघोषे०' (१।३।५०) द० → त० ।
[क्षोत्तुम् क्षुद् । क्षोदनाय । ‘क्रियायां क्रियार्थायां तुम्' (५।३।१३) तुम्प० । 'लघोरुपान्त्यस्य' (४।३।४) गु० ओ । 'अघोषे०' (११३५०) द० → त० ।
[राद्धा] 'राधंच् वृद्धौ' (११५६) राध् । 'राधं संसिद्धौ' (१३०४) राध् । राध्यतीति । राध्नोतीति । ‘णक-तृचौ' (५।१।४८) तृच्प्र० + तृ, श्वस्तनी ता वा । 'अधश्चतुर्थात् तथोर्धः' (२।१७९) त० → ध० । 'तृतीयस्तृतीय-चतुर्थे' (१।३।४९) ध० → द० ।
[राद्धम्] राध् । राधनाय । 'क्रियायां क्रियार्थायां तुम्०' (५।३।१३) तुम्प्र० । 'अधश्चतुर्थात् तथोर्धः' (२।१।७९) त० →ध० । 'तृतीयस्तृतीय-चतुर्थे' (१1३।४९) ध० → द० ।
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org