________________
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका दुण्डिका । [ घस्ता] अद् । अत्तीति धस्ता । 'णक-तृचौ' (५।१।४८) तृच्प्र० तृ । प्रथमा सि । ऋदुशनस्- पुरुदंशो०' (१।४।८४) सि० डा० । 'डित्यन्त्यस्वरादेः' (२।१।११४) अन्त्यस्वरादिलोपः । अनेन " घस्" आदेशः ।
[ घस्मरः ] अद् । अत्तीत्येवंशीलः । सृ घस्यदो मरक्' (५।२।७३) मरकप्र०मर । अनेन " घस् " आदेशः । । छ ||
२३६
वेर्वय् ||४|४|१९ ।।
[वेः] वे षष्ठी ङस् । ' एदोद्भ्यां ङसिङसो रः' (१।४।३५ ) २० ।
[व] वय् प्रथमा सि ।
[उवाय ] 'वेंग् तन्तुसन्ताने' (९९२) वे । परोक्षा णव् । अनेन "वय्" आदेश: । 'द्विर्धातुः परोक्षा-ङे प्राक्०' (४1१1१) "वय्”द्विः । 'व्यञ्जनस्याऽनादेर्लुक्' (४।१।४४) अनादिव्यञ्जनलोपः । ' यजादि - वश् वचः सस्वरान्तस्था वृत्' (४।१।७२ ) इति द्विरुक्तस्य पूर्वस्य वृत् व० उ० । ञ्णिति' (४।३।५०) उपान्त्यवृद्धिः आ ।
[ऊयतुः] वे । परोक्षा अतुस् । अनेन वय्० । 'द्विर्धातुः परोक्षा- डे० ' ( ४1919) "वय् "द्विः । 'यजादि-वचेः किति' (४।१।७९) मूलधातोर्वस्य य्वृत् । 'न वयो य्' ( ४1१1७३ ) यकारस्य य्वृन्निषेधः । ' यजादि - वश् वचः ० ' ( ४।१।७२) द्विरुक्तस्य पूर्वस्य वृत् व० उ० । 'समानानां तेन दीर्घः' (१।२1१ ) दीर्घः ।
[ऊयुः] वे । परोक्षा उस् । अनेन वय्० । शेषं 'ऊयतुः' वत् ।
[व] वे । 'आत् सन्ध्यक्षरस्य' (४।२।१) वा । परोक्षा णव् । 'द्विर्धातुः परोक्षा ङे प्राक् ० ' ( ४।१।१) द्विः । ' ह्रस्वः ' (४।१।३९) ह्रस्वः । ‘वेरयः' (४।१।७४) पूर्वस्य परस्य च य्वृन्निषेधः । ' आतो णव औ' (४।२।१२० ) औ । 'ऐदौत् सन्ध्यक्षरैः ' (१।२।१२ ) औ ।
[ववतुः ] वे । 'आत् सन्ध्यक्षरस्य ' ( ४।२1१) वा । परोक्षा अतुस् । द्विर्धातुः परोक्षा- डे० ' ( ४।१1१ ) द्विः । ' ह्रस्वः' (४।१।३९) ह्रस्वः । 'अविति वा' (४।१।७५) वा य्वृन्निषेधः । ' इडेत् - पुसि चाऽऽतो लुक्' (४।३।९४ ) आलुक् । [ ववुः ] वे । 'आत् सन्ध्यक्षरस्य ' ( ४।२।१) वा । परोक्षा उस् । शेषं 'ववतुः' वत् ॥ छ ||
ऋः शृ-दृ-प्रः ।।४।४।२० ॥
[ऋः] ऋ प्रथमा सि ।
[शदृप्रः ] शुश्च दृश्च पृश्च = तत्, तस्य ।
[विशशार, विशशार] कृ ( १५२९) मृ ( १५३०) 'शृश् हिंसायाम्' (१५३१) शृ, विपूर्व० । परोक्षा णव् । अनेन ऋ० । 'द्विर्धातुः परोक्षा-डे० ' (४।१।१) द्विः । 'ऋतोऽत्' (४।१।३८) ऋ० अ० । 'नामिनोऽकलि-हले ः ' ( ४।३।५१)
वृ० आर् ।
[विशतुः, विशशरतुः ] शू, विपूर्व० । परोक्षा अतुस् । अनेन वा ऋ० । 'द्विर्धातुः परोक्षा- डे० ' ( ४।१।१) द्विः । 'ऋतोऽत्' (४।१।३८) ऋ० अ० । प्रथमे 'इवर्णादे० ' (१।२।२१) रत्वम् । द्वितीये 'स्कृच्छ्रतोऽकि परोक्षायाम् ' ( ४।३।८) गु० अर्
[विदद्रतुः विददरतुः ] 'दृश् विदारणे' (१५३५) दृ, विपूर्व० । परोक्षा अतुस् । अनेन वा ऋ० । 'द्विर्धातुः परोक्षा
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org