SearchBrowseAboutContactDonate
Page Preview
Page 244
Loading...
Download File
Download File
Page Text
________________ अथ चतुर्थाध्यायस्य चतुर्थः पादः ।। २२७ [अनुदत्तम्] अनुदातुमारब्धम् । सर्वत्र ‘आरम्भे' (५1१1१०) क्तप्र० →त । मतान्तरेऽनेन दा -→ त्त०.। 'दत्' (४।४।१०) दा० → दत्० । सि-अम् । तन्मतसंग्रहार्थमारम्भ इत्यनुवर्तनीयम् ॥ स्वरादुपसर्गाद दस्ति कित्यधः ।।४।४।९।। [स्वरात्] स्वर पञ्चमी डसि । [उपसर्गात्] उपसर्ग पञ्चमी डसि । [द:] दा षष्ठी डस् । 'लुगाऽऽतोऽनापः' (२१११०७) आलुक् । [ति] त् सप्तमी ङि । [किति] क् इदनुवन्धो यस्याऽसौ कित्, तस्मिन् । [अधः] न धा = अधा, तस्य । [प्रत्तः] 'डुदांगक् दाने' (११३८) दा, प्रपूर्व० । प्रदीयते स्म । 'क्त क्तवतू' (५।११७४) क्तप्र० → त । अनेन दा० → त् । 'धुटो धुटि स्वे वा' (१।३।४८) त्लोपः । प्रत्तवान] दा, प्रपूर्व० । प्रददाति स्म । 'क्त-क्तवतू' (५।१११७४) क्तवतुप्र० → तवत् । अनेन दा० →त्त० । 'धुटो धुटि स्वे वा' (१।३।४८) त्लोपः । [परीत्तः] दा, परिपूर्व० । परिदीयते स्म । 'क्त-क्तवतू' (५1१1१७४) क्तप्र० → त । अनेन दा० → त्त्० । 'धुटो धुटि स्वे वा' (१।३।४८) तलोपः । 'दस्ति' (३।२।८८) दीर्घः । [परीत्तवान्] दा, परिपूर्व० । परिददाति स्म । 'क्त-क्तवतू' (५।१।१७४) क्तवतुप्र० → तवत् । अनेन दा० → त्त्० । 'धुटो धुटि स्वे वा' (१।३।४८) त्लोपः । ‘दस्ति' (३।२।८८) दीर्घः । परीत्रिमम दा, परिपूर्व० । परिदानेन निवृत्तम् । 'इवितस्त्रिमक तत्कृतम्' (५।३1८४) त्रिमप्र० → त्रिम | अनेन दा० → त्० । 'धुटो धुटि स्वे वा' (१।३।४८) त्लोपः । 'दस्ति' (३।२।८८) इति दीर्घत्वम् । __ [प्रणीत्रिमम्] दा, प्र-निपूर्व० । प्रणिदानेन निवृत्तम् । ‘ड्वितस्त्रिम तत्कृतम्' (५।३।८४) त्रिमप्र० → त्रिम । अनेन दा० → त्० । 'धुटो धुटि स्वे वा' (१।३।४८) तलोपः । 'दस्ति' (३।२।८८) इति दीर्घत्वम् । __ [अवत्तवान्] 'दों छेदने' (११४८) दो । अवद्यति स्म । क्तवतुप्र० → तवत् । अनेन दा० → त्० । 'धुटो धुटि स्वे वा' (१।३।४८) त्लुक् । [अवत्तिः] अवदानं = अवत्तिः । 'उपसर्गादातः' (५।३।११०) इत्यस्य वाधकः ‘श्र्वादिभ्यः' (५।३।९२) क्तिप्र० → ति । अनेन दा० → ० । 'धुटो धुटि स्वे वा' (१३।४८) त्लोपः । [दधि दत्तम्] दधि प्रथमा सि । 'अनतो लुप्' (१।४।५९) सिलुप् । दीयते स्म । 'क्त-क्तवतू' (५।१।१७४) क्तप्र० → त । 'दत्' (४।४।१०) दा० → दत् । [लता दिता] दीयते स्म । क्तप्र० । 'दो-सो-मा-स्थ इ:' (४।४।११) इ० । 'आत्' (२।४।१८) आप्प० → आ । [निर्दत्तम्] नितरां दीयते स्म । क्तप्र० → त । 'दत्' (४।४।१०) दा० → दत् । Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org
SR No.003294
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 04
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2011
Total Pages408
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy