________________
अथ चतुर्थाध्यायस्य तृतीयः पादः ॥
२०३
हीयते] 'ओहांक त्यागे' (११३१) हा । वर्त्तते । क्यः शिति' (३।४।७०) क्यप्र० → यं । अनेन आ०→
[जेहीयते] 'ओहांक त्यागे' (११३१) हा । भृशं पुनः पुनर्वा जहाति । 'व्यञ्जनादेरेकस्वराद्' (३।४।९) यङ्म० । अनेन आ० → ई० । 'सन्-यडश्च' (४।१।३) द्विः । 'हस्वः' (४।१।३९) ह्रस्वः । ‘ग होर्जः' (४।१।४०) ह० → ज० । 'आ-गुणावन्यादे:' (४/११४८) गु० ए । वर्त्त० ते । 'कर्त्तर्यनद्भ्यः शव' (३।४।७१) शव् । 'लुगस्यादेत्यपदे' (२१1११३) अलोपः ।
[हीनः, हीनवान्] 'ओहांक त्यागे' (११३१) हा । हीयते स्म । जहाति स्म । 'क्त-क्तवतू' (५।१।१७४) क्तप्र० → त, क्तवतुप्र० → तवत् । 'सूयत्याद्योदितः' (४।२।७०) त० → न० ।
हाङो न भवति
[हायते] 'ओहांक गतौ' (११३६) हा । वर्त्त० ते । 'क्यः शिति' (३।४७०) क्यप्र० → य ।
[जाहायते] 'ओहांड्क् गतौ' (११३६) हा । भृशं पुनः पुनर्वा जिहीते । 'व्यञ्जनादेरेकस्वराद्' (३।४।९) यङ्प० । 'सन्-यङश्च' (४।१।३) द्वि: । हूस्वः' (४।१।३९) ह्रस्वः । 'ग-होर्जः' (४।१।४०) ह० → ज० । 'आ-गुणावन्यादेः' (४।१।४८) आ । वर्त्त० ते । 'कर्त्तर्यनद्भ्यः शव्' (३।४।७१) शव् । 'लुगस्यादेत्यपदे' (२।१।११३) अलोपः ।
[तस्थतुः] स्था । परोक्षा अतुस् । 'द्विर्धातुः परोक्षा-डे०' (४।१।१) “स्था''द्विः । 'अघोषे शिटः' (४।१।४५) सलुक् । 'हूस्वः' (४।१।३९) ह्रस्वः । 'द्वितीय-तुर्ययोः पूर्वी' (४।१।४२) थ० → त० । 'इडेत्-पुसि चाऽऽतो लुक्' (४।३।९४) आलुक् ।
तस्थः] स्था । परोक्षा उस । 'द्विर्धातुः परोक्षा-डे०' (४।१।१) “स्था''द्वि: । 'अघोषे शिटः' (४/११४५) सलुक । 'ह्रस्वः' (४।१।३९) इस्वः । 'द्वितीय-तुर्ययोः पूर्वी' (४।१।४२) थ० → त० । 'इडेत्-पुसि चाऽऽतो लुक्' (४।३।९४) आलुक् ।
[माहि] 'मांक माने' (१०७३) मा । पञ्चमी हि ।
[गाता] गा । श्वस्तनी ता ।
[दाता] दा । श्वस्तनी ता । [प्रगाय] प्रगाणं पूर्वम् । 'प्राक्काले' (५।४।४७) क्त्वाप्र० → त्वा । ‘अनञः क्त्वो यप्' (३।२।१५४) यप् → य० । [प्रपाय] प्रपाणं पूर्वम् । 'प्राक्काले' (५।४।४७) क्त्वाप्र० → त्वा । 'अनञः क्त्वो यप्' (३।२।१५४) यप् → य० ।
[प्रस्थाय] प्रस्थानं पूर्वम् । 'प्राक्काले' (५।४।४७) क्त्वाप्र०
→ त्वा । 'अनञः क्त्वो यप' (३।२।१५४) यप
→य० ।
[प्रदाय प्रदानं पूर्वम् । 'प्राक्काले' (५।४।४७) क्त्वाप्र० →त्वा । 'अनञः क्त्वो यप' (३।२।१५४) यप् → य० ।
[प्रधाय] प्रधानं पूर्वम् । 'प्राक्काले' (५।४।४७) क्त्वाप्र० → त्वा । 'अनञः क्त्वो यप' (३।२।१५४) यप → य० ।
[प्रमाय] प्रमाणं पूर्वम् । [प्रहाय] प्रहाणं पूर्वम् । 'प्राक्काले' (५।४।४७) क्त्वाप्र० → त्वा । 'अनञः क्त्वो यप्' (३।२।१५४) यप् → य ।
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org