________________
१९८
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका ढुण्ढिका । [लुक्] लुक् प्रथमा सि ।
[पपतः] 'पां पाने' (२) पा । परोक्षा अतुस । 'द्विर्धातुः परोक्षा-डे प्राक तु स्वरे स्वरविधेः' (४।१।१) “पा''द्विः । 'हस्वः' (४।१।३९) हूस्वः । अनेन आलुक् ।
[पपुः] पा । परोक्षा उस् । 'द्विर्धातुः परोक्षा-डे प्राक्०' (४११) “पा"द्विः । 'हस्वः' (४।१।३९) ह्रस्वः । अनेन आलुक् ।
[अदधत्] 'ट्धे पाने' (२८) धे । 'आत् सन्ध्यक्षरस्य' (४२१) धा । अद्यतनी दि → त् । 'ट्धे-श्वेर्वा' (३।४।५९) डा० → अ । 'द्विर्धातुः परोक्षा-डे प्राक्०' (४।११) “धा"द्विः । 'हस्वः' (४।१।३९) ह्रस्वः । 'द्वितीय-तुर्ययोः पूर्वी' (४।१।४२) ध० → द० । अनेन आलुक् । 'अड् धातोरादि०' (४।४।२९) अट् ।
[आहृत् 'हॅग् स्पर्धा-शब्दयोः' (९९४) हे । 'आत् सन्ध्यक्षरस्य' (४१२१) ह्वा, आङ्पूर्व० । अद्यतनी दि → त् । 'हा-लिप्-सिचः' (३।४।६२) अड्य० → अ । अनेन आलुक् ।
[संस्था] 'प्ठ्यं गतिनिवृत्तौ' (५) ष्य । 'षः सोऽष्ट्य-ष्ठिव-ष्वष्कः' (२।३।९८) स्था । 'निमित्ताभावे नैमित्तिकस्याप्यभावः' (न्या० सं० वक्ष० (१) / सूत्र (२९)) स्था, सम्पूर्व० । संस्थानं = संस्था । 'उपसर्गादातः' (५।३।११०) अड्य० → अ । अनेन आलुक् । 'आत्' (२।४।१८) आप्प्र० → आ ।
[प्रपा] ‘पां पाने' (२) पा, प्रपूर्व० । प्रकर्षेण पिबति जलमस्यामिति प्रपा । 'भिदादयः' (५।३।१०८) अम० → अ । अनेन आलुक् । 'आत्' (२।४।१८) आप्प० → आ ।
[पपिथ] 'पां पाने' (२) पा । परोक्षा थव् । 'द्विर्धातुः परोक्षा-डे प्राक्०' (४।१।१) “पा''द्विः । 'हस्वः' (४।१।३९) हस्वः । ‘सृजि-दृशि-स्कृ-स्वराऽत्वतस्तृज्नित्याऽनिटस्थवः' (४।४।७८) इट् । अनेन आलुक् ।
[तस्थिथ] स्था । परोक्षा थव । “द्विर्धातुः परोक्षा-डे०' (४|११) "स्था"द्विः । 'अघोषे शिट:' (४।१।४५) सलुक् । 'हूस्वः' (४१३९) ह्रस्वः । 'द्वितीय-तुर्ययोः पूर्वी' (४।१।४२) थ० →त० । सृजि-दृशि-स्कृ-स्वराऽत्वतस्तृनित्याऽनिटस्थवः' (४।४।७८) इट् । अनेन आलुक् ।
[दादितुम्] ‘डुदांग्क् दाने' (११३८) दा । भृशं पुनः पुनर्वा ददाति । 'व्यञ्जनादेरेकस्वराद्' (३।४।९) यङ्प० । 'सन्-यङश्च' (४191३) “दा''द्वि: । हूस्वः' (४१1३९) ह्रस्वः । 'आ-गुणावन्यादेः' (४१६४८) आ । 'बहुलं लुप्' (३।४।१४) यङ्लुप् । दादानाय । ‘क्रियायां क्रियार्थायां०' (५।३।१३) तुम्प्र० । इट् । अनेन आलुक् ।
[दादितव्यम्] 'डुदांग्क् दाने' (११३८) दा । भृशं पुनः पुनर्वा ददाति । 'व्यञ्जनादेरेकस्वरा' (३।४।९) यप्र० । 'सन्-यङश्च' (४।१।३) "दा''द्विः । 'ह्रस्वः' (४।१।३९) ह्रस्वः । ‘आ-गुणावन्यादेः' (४११४८) आ । 'बहुलं लुप्' (३।४।१४) यडलुप । दादीयते । 'तव्या-ऽनीयौ' (५।१।२७) तव्यप्र० । इट् । अनेन आलुक । .
[व्यतिरे] 'रांक दाने' (१०६९) रा, वि-अतिपूर्व० । वर्त० ए । अनेन आलुक् । [व्यतिले] ‘लांक आदाने' (१०६८) ला, वि-अतिपूर्व० । वर्त० ए । अनेन आलुक् ।
[उदगुः] उत् 'इंण्क् गतौ' (१०७५) इ । अद्यतनी अन् । 'इणिकोर्गा' (४।४।२३) इ० → गा० । 'सिजद्यतन्याम्' (३।४।५३) सिच् । 'सिज्-विदोऽभुवः' (४।२।९२) अन्० → पुसादेशः → उस्० । 'अड् धातोरादि०' (४।४।२९) अट् । अनेन आलुक् । ‘पिवैति-दा-भू-स्थः सिचो लुप्०' (४।३।६६) सिच्लुप् ।
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org