SearchBrowseAboutContactDonate
Page Preview
Page 178
Loading...
Download File
Download File
Page Text
________________ अथ चतुर्थाध्यायस्य तृतीयः पाद: ।। १६१ Wwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwww w ww [आमः] 'अमण रोगे' (१७४७) अम् । 'चुरादिभ्यो णिच्' (३।४।१७) णिच्प्र० → इ । 'ञ्णिति' (४।३।५०) उपान्त्यवृद्धिः आ । आमनं = आमः । 'भावा-ऽकोंः ' (५।३।१८) घञ्प्र० → अ । ‘णेरनिटि' (४।३।८३) णिच्लोपः । [आमकः] आमयतीति । 'णक-तृचौ' (५११४८) णकप्र० → अक । ‘णेरनिटि' (४।३।८३) णिचलोपः । [आमि] आमि । अद्यतनी त । ‘भाव-कर्मणोः' (३।४।६८) जिच् → इ-तलोपश्च । ‘णेरनिटि' (४।३।८३) णिचलोपः । [अमः] 'अम गतौ' (३९२) अम् । अमनं = अमः । घञ्प्र० । [अमकः] अमतीति । ‘णक-तृचौ' (५।११४८) णकप्र० → अक । [शशाम] शम् । परोक्षा णव् । 'द्विर्धातुः परोक्षा-डे० ' (४।१।१) द्विः । 'व्यञ्जनस्याऽनादेर्लुक्' (४।१।४४) अनादिव्यञ्जनलोपः । ‘णिति' (४।३।५०) उपान्त्यवृद्धिः आ । - [तताम] तम् । परोक्षा णव् । 'द्विर्धातुः परोक्षा-डे०' (४।१।१) द्विः । 'व्यञ्जनस्याऽनादेर्लुक्' (४।१।४४) अनादिव्यञ्जनलोपः । 'ञ्णिति' (४।३।५०) उपान्त्यवृद्धिः आ । [निशामयते] शम्, निपूर्व० । निशाम्यन्तं प्रयुङ्क्ते । ‘प्रयोक्तृव्यापारे णिग्' (३।४।२०) णिग्प्र० । 'ञ्णिति' (४।३।५०) उपान्त्यवृद्धिः आ । वर्त० ते । 'कर्त्तर्यनद्भ्यः शव्' (३।४।७१) शव् । 'नामिनो गुणोऽक्डिति' (४।३।१) गु० ए । 'एदैतोऽयाय्' (१।२।२३) अय् छ।। विश्रमेर्वा ।।।३।५६।। [विश्रमेः]क वेः श्रमिर्विश्रमिस्तस्य । [वा] वा प्रथमा सि । [विश्रामः, विश्रमः] 'श्रमूच खेद-तपसोः' (१२३३) श्रम्, विपूर्व० । विश्रमणं = विश्रामः । ‘भावा-ऽकोंः ' (५।३।१८) घञ्प्र० → अ । अनेन विकल्पे वृद्धिः । [सूर्यविश्रामभूमिः अविश्रमं यावदिदं शरीरम्] सूर्यस्य विश्रामा भूमिः = सूर्यविश्रामभूमिः । न विद्यते विश्रमो यस्य तत् । [विश्रामकः, विश्रमकः] श्रम्, विपूर्व० । विश्रमत इति(?) (विश्राम्यतीति) । ‘णक-तृचौ' (५।१।४८) णकप्र० → अक । अनेन वा वृद्धिः आ । [व्यश्रामि, व्यश्रमि] वि-श्रम् । अद्यतनी त । 'भाव-कर्मणोः' (३।४।६८) जिच् → इ-तलोपश्च । अनेन वा वृद्धिः आ । 'अड़ धातोरादिहस्तन्यां चाऽमाडा' (४।४।२९) अट् । [श्रमः] श्रमणं = श्रमः । घञ्प्र० → अ । . . [श्रमकः] श्रम(म्य)ते इति श्रमकः । णकप्र० → अक । [अश्रमि] श्रम् । अद्यतनी त । 'भाव-कर्मणोः' (३।४।६८) जिच → इ-तलोपश्च । 'अड़ धातोरादि०' (४।४।२९) अट । P. विपूर्वः श्रमिर्विश्रमि । Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org
SR No.003294
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 04
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2011
Total Pages408
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy