________________
१०४
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका दुण्ढिका ।
'अर्ति-री०' (४।२।२१) पोऽन्तः । 'य्वो: प्वयव्यञ्जने लुक' (४|४|१२१) यलुक । वर्त० तिव ।
[दापयति] 'डुदांग्क् दाने' (११३८) दा । ददतं प्रयुङ्क्ते । ‘प्रयोक्तृव्यापारे णिग्' (३।४।२०) णिगप्र० । 'अतिरी०' (४।२।२१) पोऽन्तः । वर्त्तः तिव् । 'कर्त्तर्यनद्भ्यः शव्' (३।४।७१) शव् । 'नामिनो गुणोऽक्डिति' (४।३।१) गु० ए । 'एदैतोऽयाय' (१।२।२३) अय छ।।
लघोरुपान्त्यस्य ।।४।३।४।।
[लघोः] लघु षष्ठी डस् । [उपान्त्यस्य] उपगतोऽन्त्यमुपान्त्यम्, तस्य । . [भत्ता] 'भिदूंपी विदारणे' (१४७७) भिद् । अश्वस्तनी ता । अनेन उपान्त्यनामिनो गुणः ए । [गोप्ता] 'गुपौ रक्षणे' (३३२) गुप् । श्वस्तनी ता । अनेन उपान्त्यनामिनो गुणः ओ ।
[वर्तिता] 'वृतूङ् वर्त्तने' (९५५) वृत् । श्वस्तनी ता । 'ऊदितो वा' (४।४।४२) इट(?) । (स्ताद्यशितो०' (४।४।३२) इट्) । अनेन गु० अर् ।
[भेदनम्] भिद् । भिद्यते । 'अनट्' (५।३।१२४) अनट्प्र० → अन । अनेन गु० ए । [गोपनम्] गुप् । गुप्यते = गोपनम् । 'अनट्' (५।३।१२४) अनटप्र० → अन । अनेन गु० ओ । [वर्तनम्] वृत् । वर्तते = वर्तनम् । 'अनट्' (५।३।१२४) अनट्प्र० → अन । अनेन गु० अर् ।
[वेत्ति] 'विदक् ज्ञाने' (१०९९) विद् । वर्त्त तिव् । अनेन गु० ए । 'अघोषे प्रथमोऽशिटः' (१।३।५०) द० → त० ।
[दोग्धि] 'दुहीक क्षरणे' (११२७) दुह् । वर्त्तः तिव् । अनेन गु० ओ । 'भ्वादेर्दादर्घः' (२।१।८३) ह० → घ०। 'अधश्चतुर्थात् तथोर्धः' (२।१७९) त० → ध० । 'तृतीयस्तृतीय-चतुर्थे' (१३।४९) घ० → ग० ।
[नर्नति] 'नृतैच् नर्तने' (११५२) नृत् । भृशं पुनः पुनर्वा नृत्यति । 'व्यञ्जनादेरेकस्वराद् भृशाऽऽभीक्ष्ण्ये यङ् वा' ३।४।९) यङ्प० । 'सन्-यडश्च' (४।१।३) “नृ''द्विः । 'ऋतोऽत्' (४।१।३८) ऋ० → अ० । 'बहुलं लुप्' (३।४।१४) यङ्लुप् । 'रि-रौ च लुपि' (४।१।५६) "र" आगमः । वर्तः तिव् । अनेन गु० अर् । 'नृतेर्यङि' (२।३।९५) णत्वनिषेधः ।
[ईहते] 'ईहि चेष्टायाम्' (८५७) ईह् । वर्त्तः ते । 'कर्त्तर्यनद्भ्यः शव्' (३।४।७१) शव् । [ऊहते] 'ऊहि वितर्के' (८७०) ऊह् । वर्त्त० ते । 'कर्त्तर्यनद्भ्यः शव्' (३।४।७१) शव् ।
[भिनत्ति] 'भिदंपी विदारणे' (१४७७) भिद् । वर्त० तिव । 'रुधां स्वराच्श्नो नलुक च' (३१४९८२) श्नप्र० → न । 'अघोषे प्रथमोऽशिट:' (१३.५०) द० → त० ।।
[रुणद्धि] 'रुधूपी आवरणे' (१४७३) रुधू । वर्त्त० तिव् । 'रुधां स्वराच्छनो०' (३।४।८२) श्नप्र० →न । 'अधश्चतुर्थात् तथोर्धः' (२।१७९) त० → ध० । 'तृतीयस्तृतीय-चतुर्थे' (१।३।४९) ध० → द० ।
छणत्ति] 'उद्पी दीप्ति-देवनयोः' (१४८०) छुद् । वर्त्त० तिव । 'रुधां स्वराछनो०' (३।४।८२) श्नप्र० → न । 'अघोषे प्रथमोऽशिटः' (१३५०) द० → त० ।
P.
भिनत्तीति । ‘णक-तृचौ' (५।११४८) तृच्प० →तृ ।
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org