SearchBrowseAboutContactDonate
Page Preview
Page 268
Loading...
Download File
Download File
Page Text
________________ २५९ [ किंशुकः पलाशः ] कुत्सितः शुकः । [ किञ्जल्कः ] कुत्सितो जल्कः । [किंकिरातम् ]* कुत्सितः किरातः ॥ छ || पोटा-युवति स्तोक- कतिपय-गृष्टि- धेनु-वशा-वेहद्-बष्कयणी- प्रवक्तृ श्रोत्रिया - ऽध्यायक- धूर्त्त - प्रशंसा रूढैर्जातिः ।।३।१।१११।। [पोटायुवतिस्तोककतिपयगृष्टिधेनुवशावेहद्बष्कयणीप्रवक्तृश्रोत्रियाऽध्यायकधूर्त्तप्रशंसारूढैः ] पोटा च युवतिश्च + स्तोकं च कतिपयं च गृष्टिश्च धेनुश्च वशा च वेहच्च बष्कयणी च प्रवक्ता च श्रोत्रियश्च अध्यायकश्च धूर्त्तश्च * प्रशंसारूढानि च = पोटायुवतिस्तोककतिपयगृष्टिधेनुवशावेहद्बष्कयणीप्रवक्तृश्रोत्रियाऽध्यायकधूर्त्तप्रशंसारूढानि तैः । श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका ढुंढिका । [जातिः] 'जनैचि प्रादुर्भावे' (१२६५) जन् । जायेतेऽपि (भि) धानप्रत्ययावस्याः सा जातिः । 'स्त्रियां क्तिः' (५।३।९१) क्तिप्रति । 'आः खनि - सनि - जनः ' ( ४ |२| ६०) न० आ० । 'समानानां ० ' (१।२।१) दीर्घः । [इभ्यपोटा] इभ । इभमर्हति । ' दण्डादेर्यः' ( ६ । ४ । १७८) यप्र० । 'अवर्णेवर्णस्य' (७।४।६८) अलोपः । 'आत्’ (२।४।१८) आप्प्र ० आ । (इभ) नपुंसकहस्तिजातिः । इभ्या च सा पोटा च । 5 [अर्यापोटा] अर्या च सा पोटा च । 'पुम्वत् कर्मधारये' ( ३।२।५७) पुंवत् 1 [नागयुवतिः] नाग ‘जातेरयान्त-नित्यस्त्री-शूद्रात् ' (२।४।५४) डी ( ? ) | ( भाज- गोण - नाग-स्थल० ' (२।४।३० ) ङी । नागी चासौ युवतिश्च । ‘पुम्वत् कर्मधारये ' ( ३।२।५७) पुंवत् । [वृन्दार (रि) कयुवतिः ] वृन्दार (रि) का चासौ युवतिश्च । [अग्निस्तोकम् ] अग्निश्चासौ स्तोकं च । [विषस्तोकम् ] विषश्चासौ स्तोकं च । [दधिकतिपयम् ] दधि च तत् कतिपयं च । [तक्रकतिपयम् ] तक्रं च तत् कतिपयं च । [ अजगृष्टिः ] अजा चासौ गृष्टिश्च । पुम्वत् कर्मधारये ' ( ३।२।५७) पुंवत् । [ अजधेनुः ] अजा चासौ धेनुश्च । [गोवा ] गौश्चासौ वशा च । [ अजवशा] अजा चासौ वशा च । [ गोहत्] गौश्चासौ वेहच्च । [ अजवेहत्] अजा चासौ वेहच्च । श० म० न्यासानुसन्धाने कुत्सितं किरातम् । किरातं काञ्चनारवृक्षस्य पुष्पमिति लघुन्यासः । किंकिरातः कुरण्टकः इत्यभिधानचिन्तामणिः । अयमुणादिना व्युत्पादितः । P + स्तोकश्च कतिपयश्च । P★ प्रशंसारूढश्च ते । 5 श० म० न्यासानुसन्धाने अत्र आर्याशब्दस्थाने अर्या इति पाठः सम्यगाभाति । अर्यशब्दश्च 'स्वामिवैश्येऽर्यः' (५।१।३३) साधुः । अर्यशब्दस्य वैश्यजातिवचनत्वात् समासः । बृहद्वृत्तौ - आर्यपोटा । Jain Education International For Private Personal Use Only www.jainelibrary.org
SR No.003292
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 02
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2009
Total Pages346
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy