SearchBrowseAboutContactDonate
Page Preview
Page 239
Loading...
Download File
Download File
Page Text
________________ अथ तृतीयाऽध्यायस्य प्रथमः पादः ॥ तस्मै ॥छ || [ प्रकृत्या ] प्रकरणं प्रकृतिः, तया । [ यूपदारु ] यूपाय दारु । [ कुण्डलहिरण्यम् ] कुण्डलाय हिरण्यम् । [अवहननायोलूखलम् ] अव 'हनंक् हिंसा-गत्योः' (११००) हन् । अवहन्यते । 'अनट्' (५।३।१२४) अनट्प्र० अन P = चतुर्थी प्रकृत्या || ३ |१ |७० || [हितादिभिः ] 5 हितमादिर्येषां ते = हितादयस्तैः । [ गोहितम् ] गोभ्यो हितम् । [ गोसुखम् ] गोभ्यः सुखम् । [ गोरक्षितः ] गोभ्यो रक्षितः । [ अश्वघासः ] अधेभ्यो घासः । [ श्वश्रूरा] श्वश्चै सुरा । [सुरम् ] सुरा । 'क्लीबे' (२।४।९७ ) हस्वः । [ हस्तिविधा] हस्तिने विधा । [धर्मनियमः] धर्माय नियमः । हितादिभिः ||३|१|७१ ।। [धर्मजिज्ञासा ] 'ज्ञांश् अवबोधने' (१५४०) ज्ञा । ज्ञातुमिच्छति । 'तुमर्हादिच्छायां सन्नतत्सनः ' ( ३।४।२१ ) सन्प्र० । 'सन्-यडञ्श्च' (४।१।३) ज्ञा सउं द्विर्वचनम् । 'व्यञ्जनस्याऽनादेर्लुक्' (४|१|४४ ) अनादिव्यञ्जनलोपः । ' ह्रस्वः' ( ४।१।३९ ) ह्रस्वत् । 'सन्यस्य' (४।१।५९) इ । जिज्ञासनं = जिज्ञासा । ' शंसि प्रत्ययात्' (५।३।१०५) अप्र० । 'अतः ' ( ४ | ३ |८२ ) अलोपः । धर्माय जिज्ञासा । हित आदिर्येषां तानि । Jain Education International २३० [ नाट्यशाला ] नाट्याय शाला । [आत्मनेपदम् ] आत्मनेपदम् । 'परा ऽऽत्मभ्यां ङे:' ( ३।२।१७) अलुप्समासः । [परस्मैपदम् ] परस्मैपदम् । 'परा-ऽऽत्मभ्यां ङे:' ( ३।२।१७) अलुप्समासः । [देवदेयम् ] देव 'डुदांग दाने' (११३८) दा । देवाय दीयते । य एच्चातः' (५।१।२८) यप्र० आ० ए० । [ ब्राह्मणदेयम् ] ब्राह्मण 'डुदांग्क् दाने' (११३८) दा । ब्राह्मणाय दीयते । य एच्चातः ' ( ५।१।२८) यप्र० आ० ए० । [ वरप्रदेया कन्या ] वर प्र 'डुदांगक् दाने' (११३८ ) दा । वराय प्रदीयते । 'य एच्चातः ' ( ५।१।२८) यप्र० आ०-→ ए० । For Private Personal Use Only www.jainelibrary.org
SR No.003292
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 02
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2009
Total Pages346
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy