________________
अथ तृतीयाऽध्यायस्य प्रथमः पादः ।।
१९८
गत्यर्थ-वदोच्छः ।।३।१८।। [गत्यर्थवदः] गतिरों येषां ते = गत्यर्थाः, गत्यर्थाश्च वद् च = गत्यर्थवद्, तस्य । [अच्छगत्य] अच्छशब्दोऽभिशब्दार्थे दृढार्थे च । अच्छगमनं पूर्वम् ।
[अच्छवज्य] अच्छ धृज (१३०) - धृजु (१३१) - ध्वज (१३२) - ध्वजु (१३३) - ध्रज (१३४) - धजु (१३५) - वज (१३६) - ‘व्रज गतौ' (१३७) व्रज् । अच्छवजनं पूर्वम् ।
[अच्छोद्य] अच्छ ‘वद व्यक्तायां वाचि' (९९८) वद् । अच्छवदनं पूर्वम् । 'प्राक्काले' (५।४।४७) क्त्वाप्र० । 'अनञः क्त्वो यप्' (३।२।१५४) यप् । 'यजादि-वचेः किति' (४।१७९) य्वृत् व०→उ० । [अच्छ कृत्वा गतः] अच्छ करणं पूर्वम् । क्त्वाप्र० ।।छ।।
तिरोऽन्तो ।।३।१।९।। [अन्तर्धी] अन्तर्धानम् । 'अन्तर्धिः' (५।३।८९) किप्र० । ‘इडेत्-पुसि चाऽऽतो लुक्' (४।३।९४) आलोपः, तस्मिन् । [तिरोभूय] तिरस् 'भू सत्तायाम्' (१) भू । तिरोभवनं पूर्वम् । [तिरोधाय] तिरोधानं पूर्वम् । 'प्राक्काले' (५।४।४७) क्त्वाप०→त्वा । ‘अनञः क्त्वो यप्' (३।२।१५४) यप् ||छ।।
कृगो नवा ||३1१1१०॥ [तिरस्कृत्य, तिरःकृत्य, तिरःकृत्वा तिरस् 'डुकंग करणे' (८८८) कृ । तिरस्करणं पूर्वम् । 'प्राक्काले' (५।४।४७) क्त्वाप्र० । 'अनञः क्त्वो यप्' (३।२।१५४) यप् । 'हूस्वस्य तः पित्कृति' (४।४।११३) तोऽन्तः । 'तिरसो वा' (२।३।२) र०स०। [तिरः कृत्वा काष्ठं गतः] करणं पूर्वम् ।।छ।।
___ मध्ये-पदे-निवचने-मनस्युरस्यनत्याधाने ।।३।१।११।। [मध्येपदेनिवचनेमनस्युरसि] + मध्ये च पदे च निवचने च मनसि च उरसि च = मध्येपदेनिवचनेमनस्युरसि । प्रथमा जस् । सूत्रत्वात् लोपः ।
[अनत्याधाने] न अत्याधानमनत्याधानम्, तस्मिन् । [मध्येकृत्य, मध्ये कृत्वा] मध्येकरणं पूर्वम् । [पदेकृत्य, पदे कृत्वा] पदेकरणं पूर्वम् । [निवचनेकृत्य, निवचने कृत्वा] निवचनेकरणं पूर्वम् । [मनसिकृत्य, मनसि कृत्वा] मनसिकरणं पूर्वम् ।
[उरसिकृत्य, उरसि कृत्वा] उरसिकरणं पूर्वम् । सर्वत्र 'प्राक्काले' (५।४।४७) क्त्वाप्र० । 'अमः क्त्वो यप्' (३।२।१५४) यप् । 'हस्वस्य तः पित्कृति' (४।४।११३) तोऽन्तः । एवमग्रेऽपि समासः ।।छ।।
उपाजे-ऽन्वाजे ||३।१।१२।। [उपाजेऽन्वाजे] उपाजे च अन्वाजे च = उपाजेऽन्वाजे । प्रथमा औ । सूत्रत्वात् लोपः ।
P4 मध्येश्च पदेश्च निवचनेश्च मनसिश्च उरसिश्च ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org