SearchBrowseAboutContactDonate
Page Preview
Page 435
Loading...
Download File
Download File
Page Text
________________ २७० कुन्दकुन्दविरचितः [अ० ३, गा० २०अथान्तरङ्गच्छेदप्रतिषेध एवायमुपधिप्रतिषेध इत्युपदिशति ण हि णिरवेक्खो चागो ण हवदि भिक्खुस्स आसयविसुद्धी। अविसुद्धस्स य चित्ते कहं णु कम्मक्खओ विहिओ ॥२०॥ न हि निरपेक्षस्त्यागो न भवति भिक्षोराशयविशुद्धिः। अविशुद्धस्य च चित्ते कथं नु कर्मक्षयो विहितः ॥ २० ॥ न खलु बहिरङ्गसंगसद्भावे तुषसद्भावे तण्डुलगताशुद्धखस्येवाशुद्धोपयोगरूपस्यान्तरङ्गच्छेदस्य प्रतिषेधसद्भावे च न शुद्धोपयोगमूलस्य केवलस्योपलम्भः । ततोऽशुद्धोपयोगस्यान्तरङ्गच्छेदस्य प्रतिषेधं प्रयोजनमपेक्ष्योपविधीयमानः प्रतिषेधोऽन्तरङ्गच्छेदप्रतिषेध एव स्यात् ॥२०॥ विजदि' इत्यादि सूत्रत्रयम् । तदनन्तरं स्त्रीनिर्वाणनिराकरणप्रधानत्वेन 'पेच्छदि ण हि इह लोगं' इत्याचेकादश गाथा भवन्ति । ताश्चामृतचन्द्रटीकायां न सन्ति । ततः परं सर्वोपेक्षासंयमसमर्थस्य तपोधनस्य देशकालापेक्षया किंचित्संयमसाधकशरीरस्य निरवद्याहारादिसहकारिकारणं ग्राह्यमिति पुनस्यपवादविशेषव्याख्यानमुख्यत्वेन 'उवयरणं जिगमग्गे' इत्याधेकादशगाथा भवन्ति । अत्र टीकायां गाथा चतुष्टयं नास्ति । एवं मूलसूत्राभिप्रायेण त्रिंशद्गाथाभिः टीकापेक्षया पुनर्वादशगाथाभिः द्वितीयान्तराधिकारे समुदायपातनिका । तथाहि-अथ भावशुद्धिपूर्वकबहिरङ्गपरिग्रहपरित्यागे कृते सति अभ्यन्तरपरिग्रहपरित्यागः कृत एव भवतीति निर्दिशति-ण हि गिरवेक्खो चागो न हि निरपेक्षस्त्यागः यदि चेत् परिग्रहत्यागः सर्वथा निरपेक्षो न भवति किंतु किमपि वस्त्रपात्रादिकं ग्राह्यमिति भवता भण्यते तर्हि हे शिष्य ण हवदि भिक्खुस्स आसयविसुद्धी न भवति भिक्षोराशयविशुद्धिः तदा सापेक्षपरिणामे सति भिक्षोस्तपोधनस्य चित्तशुद्धिर्न भवति अविसुद्धस्स य चित्ते शुद्धात्मभावनारूपशुद्धिरहितस्य तपोधनस्य चित्ते मनसि हि स्फुटं कहं तु कम्मक्खओ विहिओ कथं तु कर्मक्षयो विहितः उचितो न कथमपि । अनेनैतदुक्तं भवति-यथा बहिरङ्गतुषसद्भावे सति तण्डुलस्याभ्यन्तरशुद्धिं कर्तुं नायाति तथा विद्यमानेऽविद्यमाने वा बहिरङ्गपरिग्रहेऽभिलाषे सति निर्मलशुद्धात्मानुभूतिरूपां चित्तशुद्धिं कर्तुं नायाति । यदि पुनर्विशिष्टवैराग्यपूर्वकपरिग्रहत्यागो भवति तदा चित्तशुद्धिर्भवत्येव ख्यातिपूजालाभनिमित्तत्यागे तु न भवति ॥ २० ॥ रूप परिणामोंमें [अविशुद्धस्य जो समल है, उस मुनिके [कथं] किस प्रकार [नु] भला [कर्मक्षयः] समस्त कर्मका नाश [विहितः] हो सकता है ? नहीं हो सकता । भावार्थ-जो मुनिके बाह्य परिग्रह तिल तुसमात्र भी हो, तो अन्तरङ्गमें शुद्धोपयोगरूप संयमका घात अवश्य होता है, उतने ही परिग्रहसे अशुद्ध भाव अवश्य होते हैं । जिस प्रकार चाँवलके ऊपर तुसके (छिलके) होनेसे चाँवलमें अवश्य आरक्त (ललाई लिये हुए) मल होता है, उस ही प्रकार मुनिके किंचित्मात्र भी बाह्य परिग्रहके होनेसे अभ्यन्तरमें निश्चयसे अशुद्ध भाव होते हैं। जिस मुनिके कुछ भी परिग्रह है, उसके शुद्धोपयोग नहीं होता, जहाँ शुद्धोपयोग नहीं, वहाँ केवलपदकी प्राप्ति कहाँसे होवे । इसलिये जो कोई अशुद्धोपयोगरूप असंयम भावको छोड़ना चाहे, वह पुरुष बाह्य परिग्रहका सर्वथा त्याग करे, तब उस पुरुषके Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003289
Book TitlePravachanasara
Original Sutra AuthorN/A
AuthorA N Upadhye
PublisherShrimad Rajchandra Ashram
Publication Year1964
Total Pages612
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy