________________
८०] ..
प्रवचनसारः तबहुतरार्थप्रतिपत्तये । तथाहि-न लिङ्गैरिन्द्रियैहिकतामापनस्य ग्रहणं यस्येत्यतीन्द्रियज्ञानमयत्वस्य प्रतिपत्तिः। न लिङ्गैरिन्द्रियैर्ग्राह्यतामापनस्य ग्रहणं यस्येतीन्द्रियप्रत्यक्षाविषयत्वस्य । न लिङ्गादिन्द्रियगम्याद्धमादग्नेरिव ग्रहणं यस्येतीन्द्रियप्रत्यक्षपूर्वकानुमानाविषयत्वस्य। न लिङ्गादेव परैः ग्रहणं यस्येत्यनुमेयमात्रखाभावस्य । न लिङ्गादेव परेषां ग्रहणं यस्येत्यनुमातृमात्रखाभावस्य । न लिङ्गात्स्वभावेन ग्रहणं यस्येति प्रत्यक्षज्ञातृत्वस्य । न लिङ्गेनोपयोगाख्यलक्षणेन ग्रहणं ज्ञेया
लिम्बनं यस्येति बहिरालम्बनज्ञानाभावस्य । न लिङ्गस्योपयोगाख्यलक्षणस्य ग्रहणं स्वयमाहरणं यस्येत्यनाहार्यज्ञानवस्य । न लिङ्गस्योपयोगाख्यलक्षणस्य ग्रहणं परेण हरणं यस्येत्याहार्यज्ञानवस्य । न लिङ्गे उपयोगाख्यलक्षणस्य ग्रहणं सूर्य इवोपरागो यस्येति शुद्धोपयोगस्व. भावस्य । न लिङ्गादुपयोगाख्यलक्षणाद्ग्रहणं पौद्गलिककर्मादानं यस्येति द्रव्यकर्मासंपृक्तवस्य । न लिङ्गेभ्य इन्द्रियेभ्यो ग्रहणं विषयाणामुपभोगो यस्येति विषयोपभोक्तखाभावस्य । न लिङ्गात्मनो वेन्द्रियादिलक्षणाद्ग्रहणं जीवस्येति शुक्रातवानुविधायिखाभावस्य । न लिङ्गस्य मेहनालभ्यत इति सर्वत्र ज्ञातव्यः । एवमेकोनविंशतिगाथाभिस्तृतीयविशेषान्तराधिकारे समुदायपातनिका । तद्यथा-अथ किं तर्हि जीवस्य शरीरादिपरद्रव्येभ्यो भिन्नमन्यद्रव्यासाधारणं स्वस्वरूपमिति प्रश्ने प्रत्युत्तरं ददाति-अरसमरूवमगंधं रसरूपगन्धरहितत्वात्तथा चाव्याहार्यमाणास्पर्शरूपगन्धत्वाश्च अन्बत्तं अव्यक्तत्वात् असदं अशब्दत्वात् अलिंगग्गहणं अलिङ्गग्रहणत्वात् अणिदिसंठाणं अनिर्दिष्टसंस्थानत्वाच्च जाण जीवं जानीहि जीवम् । अरसमरूपमगन्धमस्पर्शमव्यक्तमशब्दमलिङ्गग्रहणमनिर्दिष्टसंस्थानलक्षणं च हे शिष्य, जीवं जीवद्रव्यं जानीहि । पुनरपि कथंभूतम् । चेदणागुणं समस्तपुद्गलादिभ्योऽचेतनेभ्यो भिन्नः समस्तान्यद्रव्यासाधारणः स्वकीयानन्तजीवजातिसाधारणश्च चेतनागुणो यस्य तं चेतनागुणं चालिङ्गप्राह्यमिति वक्तव्ये यदलिङ्गग्रहणमित्युक्तं तत्किमर्थमिति चेत् बहुतरार्थप्रतिपत्त्यर्थम् । तथाहि-लिङ्गमिन्द्रियं तेनार्थानां ग्रहणं परिच्छेदनं न करोति तेनालिङ्गग्रहणो भवति । तदपि कस्मात्स्वयमेवातीन्द्रियाखण्डज्ञानसहितत्वात् । तेनैव लिङ्गशब्दवाच्येन चक्षुरादीन्द्रियेणान्यजीवानां यस्य ग्रहणं परिच्छेदनं कर्तुं नायाति तेनालिङ्गग्रहण उच्यते । तदपि कस्मात् । निर्विकारातीन्द्रियस्वसंवेदनप्रत्यक्षज्ञानगम्यत्वात् । लिङ्गं धूमादि तेन धूमलिङ्गोद्भवाभिन्न है, स्वजीव सत्ताकी अपेक्षा अन्य जीव द्रव्यसे भी भिन्न है, अपने अस्तित्वकर सद्रूप वस्तुमात्र है,
और यहाँपर अलिंगग्रहण विशेषण इसलिये कहा है, कि वह आत्मा किसी पुद्गलीक चिह्नसे ग्रहण नहीं किया जाता । इस विशेषण पदके अनेक अर्थ है, उनमें से कुछ थोड़े दिखलाते हैं-लिंग नाम इंद्रियोंका है, उन इन्द्रियोंसे यह आत्मा पदार्थोंका ग्रहण (ज्ञान) करनेवाला नहीं है, अतीन्द्रिय स्वभावसे पदार्थोको जानता है, इसलिये अलिंगग्रहण है। अथवा इन्द्रियोंसे अन्य जीव भी इस आत्माका ग्रहण नहीं करसकते, यह तो अतीन्द्रिय स्वसंवेदन ज्ञानगम्य (अपने अनुभवगोचर) है, इसलिये भी अलिंगग्रहण है। जैसे धूम-धुएं चिह्नको देखकर अग्निका ज्ञान करते हैं, वैसे अनुमान ज्ञानकर लिंग अर्थात् चिह्नकर यह आत्मा अन्य पदार्थोका जाननेवाला नहीं है, यह तो अतीन्द्रिय प्रत्यक्षज्ञानसे जानता है, इस कारण भी
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org