________________
११६
कुन्दकुन्दविरचितः
[ अ० २, गा० ४
कुण्डलादिपर्यायैश्च यदस्तित्वं कार्तस्वरस्य स स्वभावः, तथा हि द्रव्येण वा क्षेत्रेण वा कालेन वा भावेन वा द्रव्यात्पृथगनुपलभ्यमानैः कर्तृकरणाधिकरणरूपेण गुणानां पर्यायाणां च स्वरूपमुपादाय प्रवर्तमानमनियुक्तस्य द्रव्यास्तित्वेन निष्पादितनिष्पत्तियुक्तैर्गुणैः पर्यायेव यदस्तित्वं द्रव्यस्य स स्वभावः । यथा वा द्रव्येण वा क्षेत्रेण वा कालेन वा भावेन वा पीततादिगुणेभ्यः कुण्डलादिपर्यायेभ्यश्च पृथगनुपलभ्यमानस्य कर्तृकरणाधिकरणरूपेण कार्तस्वरस्वरूपमुपादाय प्रवर्तमानमवृत्तियुक्तैः पीततादिगुणैः कुण्डलादिपर्यायैश्च निष्पादितनिष्पत्तियुक्तस्य कार्तस्वरस्य मूलसाधनतया तैर्निष्पादितं यदस्तित्वं स स्वभावः, तथा द्रव्येण वा क्षेत्रेण वा कालेन वा भावेन वा गुणेभ्यः पर्यायेभ्यश्च पृथगनुपलभ्यमानस्य कर्तृकरणाधिकरणरूपेण द्रव्यस्वरूपमुपादाय मवर्तमानामवृत्तियुक्तैर्गुणैः पर्यायैश्च निष्पादितनिष्पत्तियुक्तस्य द्रव्यस्य मूलसाधनतया तैर्निष्पादितं यदस्तित्वं स स्वभावः । किं च-यथा हि द्रव्येण वा क्षेत्रेण वा कालेन वा भावेन वा कार्यस्वरात्पृथगनुपलभ्यमानैः कर्तृकरणाधिकरणरूपेण कुण्डलाङ्गदपीतताद्युत्पादव्ययधौव्याणां स्वरूपयतः कारणाद्गुणपर्यायोऽस्तित्वेनोत्पादव्ययधौव्यास्तित्वेन च कर्तृभूतेन शुद्धात्मद्रव्यास्तित्वं साध्यते, शुद्धात्मद्रव्यास्तित्वेन च गुणपर्यायोत्पादव्ययत्रौव्यास्तित्वं साध्यत इति । तद्यथा यथा स्वकीयद्रव्यक्षेत्रकालभावैः सुवर्णादभिन्नानां पीतत्वादिगुणकुण्डलादिपर्यायाणां संबन्धि यदस्तित्वं स एव सुवर्णस्य सद्भावः, तथा स्वकीयद्रव्यक्षेत्रकालभावैः परमात्मद्रव्यादभिन्नानां केवलज्ञानादिगुणकिंचिदूनचरम शरीराकारादिपर्यायाणां संबन्धि यदस्तित्वं स एवमुक्तात्मद्रव्यस्य सद्भावः । यथा स्वकीयद्रव्यक्षेत्रकालभावैः पीतत्वादिगुणकुण्डलादिपर्यायेभ्यः सकाशादभिन्नस्य सुवर्णस्य संबन्धि यदस्तित्वं स एव पीतत्वादिगुणकुण्डलादिपर्यायाणां स्वभावो भवति, तथा स्वकीयद्रव्यक्षेत्र कालभावैः केवलज्ञानादिगुण किंचिदूनचरमशरीराकारपर्यायेभ्यः सकाशादभिन्नस्य मुक्तात्मद्रव्यस्य संबन्धि यदस्तित्वं स एव केवलज्ञानादिगुणकिंचिदूनचर मशरीराकारपर्यायाणां स्वभावो ज्ञातव्यः । स्वभाव हैं । इसी प्रकार द्रव्य, क्षेत्र, काल, भावों की अपेक्षा द्रव्यसे अभिन्न जो उसके गुणपर्याय हैं, उनका कर्ता साधन, और आधार द्रव्य हैं, क्योंकि द्रव्यके अस्तित्वसे ही गुणपर्यायोंका अस्तित्व है । जो द्रव्य न होवे, तो गुणपर्याय भी न होवें । द्रव्य स्वभाववंत है, और गुणपर्याय स्वभाव हैं । और जैसे द्रव्य, क्षेत्र, काल भावोंसे, पीततादि गुण तथा कुंडलादि पर्यायोंसे अपृथक्भूत ( जो जुदे नहीं ) सोनेके कर्म पीततादि गुण तथा कुंडलादि पर्याय हैं, इसलिये पीततादि गुण और कुंडलादि पर्यायों के अस्तित्वसे सोनेका अस्तित्व है । यदि पीततादिगुण तथा कुंडलादि पर्यायें न हों, तो सोना भी न होवे । इसी प्रकार द्रव्य, क्षेत्र, काल, भावोंसे गुणपर्यायों से अपृथग्भूत द्रव्यके कर्म गुणपर्याय हैं, इसलिये
पर्यायोंके अस्तित्वसे द्रव्यका अस्तित्व है । जो गुणपर्यायें न हों, तो द्रव्य भी न होवे । और जैसेद्रव्य, क्षेत्र, काल, भावोंसे सोनेसे अपृथग्भूत ऐसा जो कंकणका उत्पाद, कुंडलका व्यय तथा पीतत्वादिका धन्य इन तीन भावोंका कर्ता, साधन, और आधार सोना है, इसलिये सोनेके अस्तित्वसे इनका अस्तित्व है, क्योंकि जो सोना न होवे, तो कंकणका उत्पाद, कुंडलका व्यय और पीतत्वादिका धौम्य,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org