________________
ज्ञेयतत्त्वाधिकारः ॥ २॥
००००
अथ ज्ञेयतत्त्वप्रज्ञापनं, तत्र पदार्थस्य सम्यन्द्रव्यगुणपर्यायस्वरूपमुपवर्णयति—
इतः ऊर्ध्वं 'सत्तासंबद्धेदे' इत्यादि गाथासूत्रेण पूर्वं संक्षेपेण यद्वयाख्यातं सम्यग्दर्शनं तस्येदानीं विषयभूतपदार्थव्याख्यानद्वारेण त्रयोदशाधिकशतप्रमितगाथापर्यन्तं विस्तरव्याख्यानं करोति । अथवा द्वितीयपातनिका - पूर्वं यद्वयाख्यातं ज्ञानं तस्य ज्ञेयभूतपदार्थान् कथयति । तत्र त्रयोदशाधिकशतगाथासु मध्ये प्रथमस्तावत् 'तम्हा तस्स णमाई' इमां गाथामादिं कृत्वा पाठक्रमेण पञ्चत्रिंशद्गाथापर्यन्तं सामान्यज्ञेयव्याख्यानं, तदनन्तरं 'दव्वं जीवमजीवं' इत्याद्येकोनविंशतिगाथापर्यन्तं विशेषज्ञेयव्याख्यानं, अथानन्तरं 'सपदेसेहिं समग्गो लोगो' इत्यादि गाथाष्टकपर्यन्तं सामान्य भेदभावना, ततश्च 'अत्थित्तणिच्छिदस्स हि ' इत्याद्यैकपञ्चाशद्गाथापर्यन्तं विशेषभेदभावना चेति द्वितीयमहाधिकारे समुदायपातनिका । अथेदानीं सामान्यज्ञेयव्याख्यानमध्ये प्रथमा नमस्कारगाथा, द्वितीया द्रव्यगुणपर्यायव्याख्यानगाथा, तृतीया स्वसमयपर समयनिरूपणगाथा, चतुर्थी द्रव्यस्य सत्तादिलक्षणत्रयसूचनगाथा चेति पीठिकाभिधाने प्रथमस्थले स्वतन्त्रगाथाचतुष्टयम्। तदनन्तरं ‘सब्भावो हि सहावो' इत्यादिगाथाचतुष्टयपर्यन्तं सत्ता लक्षणव्याख्यानमुख्यत्वं तदनन्तरं 'ण भवो भंगविहीणो' इत्यादिगाथात्रयपर्यन्तमुत्पादव्ययधौव्यलक्षणकथनमुख्यता, ततश्व 'पाडुन्भवदि य अण्णा' इत्यादिगाथाद्वयेन द्रव्यपर्यायनिरूपणमुख्यता । अथानन्तरं 'ण हवदि जदि सदव्वं' इत्यादि गाथाचतुष्टयेन सत्ताद्रव्ययोरभेदविषये युक्तिं कथयति, तदनन्तरं 'जो खलु दव्वसहावो' इत्यादि सत्ताद्रव्ययोर्गुणगुणिकथनेन प्रथमगाथा, द्रव्येण सह गुणपर्याययोरभेदमुख्यत्वेन ' णत्थि गुणो त्तिय कोई ' इत्यादि द्वितीया चेति स्वतन्त्रगाथाद्वयं, तदनन्तरं द्रव्यस्य द्रव्यार्थिकनयेन सदुत्पादो भवति, पर्यायार्थिकनयेनासदित्यादिकथनरूपेण ' एवंविहं' इतिप्रभृति गाथाचतुष्टयं ततश्च 'अस्थि त्ति य' इत्याद्येकसूत्रेण नयसप्तभङ्गीव्याख्यानमिति समुदायेन चतुर्विंशतिगाथाभिरष्टभिः स्थलैर्द्रव्यनिर्णयं करोति । तद्यथा - अथ सम्यक्त्वं कथयति -
Jain Education International
तम्हा तस्स माई किच्चा णिचं पि तम्मणो होज्ज । वोच्छामि संगहादो परमट्ठविणिच्छयाधिगमं ॥ * १ ॥
तम्हा तस्स माई किच्चा यस्मात्सम्यक्त्वं विना श्रमणो न भवति तस्मात्कारणात्तस्य सम्यक् - चारित्रयुक्तस्य पूर्वोक्ततपोधनस्य नमस्यां नमस्क्रियां नमस्कारं कृत्वा णिच्चं पि तम्मणो होज्ज नित्यमपि तद्गतमना भूत्वा वोच्छामि वक्ष्याम्यहं कर्ता संगहादो संग्रहात्संक्षेपात्संक्षेपात्सकाशात् । किम् । परमट्टविणिच्छयाधिगमं परमार्थविनिश्चयाधिगमं सम्यक्त्वमिति परमार्थविनिश्चयाधिगमशब्देन सम्यक्त्वं कथं भण्यत इति चेत्-परमोऽर्थः परमार्थः शुद्धबुद्वैकस्वभावः परमात्मा, परमार्थस्य विशेषेण संशयादिरहितत्वेन निश्चयः परमार्थनिश्चयरूपोऽधिगमः शङ्कायष्टदोषरहितश्च यः परमार्थतोऽर्थावबोधो यस्मात्सम्यक्त्वात्तत् आगे ज्ञेयतत्त्वका कथन करते हुए उसमें भी पहले पदार्थोंको द्रव्य, गुण, पर्याय, स्वरूप कहते
For Private & Personal Use Only
www.jainelibrary.org