________________
कुन्दकुन्दविरचितः
[अ० १, गा० ७९
समासन्नमहादुःखसंकटः कथमात्मानमविप्लुतं लभते । अतो मया मोहवाहिनीविजयाय बद्धा कक्षेयम् ॥ ७९ ॥
अथ कथं मया विजेतव्या मोहवाहिनीत्युपायमालोचयति
९०
परमोपेक्षालक्षणं परमसामायिकं पूर्वं प्रतिज्ञाय पश्वाद्विषयसुखसाधकशुभोपयोगपरिणत्या मोहितान्तरङ्गः सन् निर्विकल्पसमाधिलक्षणपूर्वोक्तसामायिकचारित्राभावे सति निर्मोहशुद्धात्मतत्त्वप्रतिपक्षभूतान् मोहादीन्न त्यजति यदि चेत्तर्हि जिनसिद्धसदृशं निजशुद्धात्मानं न लभत इति सूत्रार्थः ॥ ७९ ॥ अथ शुद्धोपयोगाभावे यादृशं जिनसिद्धस्वरूपं न लभते तमेव कथयति
तवसंजमप्पसिद्धो सुद्धो सग्गापवरगकरो ।
अमरासुरिंदमहिदो देवो सो लोयसिहरत्थो ।। ५ ॥
*
तवसंजमपसिद्धो समस्तरागादिपरभावेच्छात्यागेन स्वस्वरूपे प्रतपनं विजयनं तपः, बहिरङ्गेन्द्रियप्राणसंयमबलेन स्वशुद्धात्मनि संयमनात्समरसीभावेन परिणमनं संयमः, ताभ्यां प्रसिद्धो जातस्तपः संयमप्रसिद्धः, सुद्धो क्षुधाद्यष्टादशदोषरहितः सग्गापवग्गमग्गकरो स्वर्गः प्रसिद्धः केवलज्ञानाद्यनन्तचतुष्टयलक्षणोऽपवर्गो मोक्षस्तयोर्मार्गं करोत्युपदिशति स्वर्गापवर्गमार्गकरः, अमरासुरिंदमहिदो तत्पदाभिलाषिभिरमरासुरेन्द्रैर्महितः पूजितोऽमरासुरेन्द्रमहितः देवो सो स एवं गुणविशिष्टोऽर्हन् देवो भवति । लोयसिहरत्थो स एव भगवान् लोकाग्रशिखरस्थः सन् सिद्धो भवतीति जिनसिद्धस्वरूपं ज्ञातव्यम् || ५ || अथ तमित्थंभूतं निर्दोषपरमात्मानं ये श्रद्दधति मन्यन्ते तेऽक्षयसुखं लभन्त इति प्रज्ञापयति
तं देवदेवदेवं जदिवरवसहं गुरुं तिलोयस्स ।
पणमंत जे मणुस्सा ते सोक्खं अक्खयं जंति ॥ * ६ ॥
तं देवदेवदेवं देवदेवाः सौधर्मेन्द्रप्रभृतयस्तेषां देव आराध्यो देवदेवदेवस्तं देवदेवदेवं, जदिवरवसहं जितेन्द्रियत्वेन निजशुद्धात्मनि यत्नपरास्ते यतयस्तेषां वरा गणधरदेवादयस्तेभ्योऽपि वृषभः प्रधानो यतिवरवृषभस्तं यतिवरवृषभं गुरुं तिलोयस्स अनन्तज्ञानादिगुरुगुणैस्त्रैलोक्यस्यापि गुरुस्तं त्रिलोकगुरुं पणमंति जे मणुस्सा तमित्थंभूत भगवन्तं ये मनुष्यादयो द्रव्यभावनमस्काराभ्यां प्रणमन्त्याराधयन्ति ते सोक्खं अक्खयं जंति ते तदाराधनाफलेन परंपरयाऽक्षयानन्तसौख्यं यान्ति लभन्त इति सूत्रार्थः ॥ ६ ॥ अथचत्ता पावारंभ' इत्यादि सूत्रेण यदुक्तं शुद्धोपयोगाभावे मोहादिविनाशो न भवति, मोहादिविनाशाभावेन शुद्धात्मलाभो न भवति तदर्थमेवेदानीमुपायं समालोचयति — जो जाणदि अरहंतं यः कर्ता जानाति । कम् । अर्हन्तम् । कैः कृत्वा । दव्त्रत्तगुणत्तपज्जयत्तेहिं द्रव्यत्वगुणत्वपर्यायत्वैः सो जाणदि अप्पाणं स पुरुषोऽर्हत्परिज्ञानात्पश्चादात्मानं जानाति मोहो खलु जादि तस्स लयं तत आत्मपरिज्ञानात्तस्य मोहो दर्शनमोहो लयं विनाशं
शुभपयोग क्रियारूप मोह ठगकी खोटी स्त्रीके वशमें होजाता है, वह मोहकी सेनाको नहीं जीत सकता, और उसके समीप अनेक दुःख संकट हैं, इसलिये निर्मल आत्माको नहीं पाता । इसी कारण मैंने मोहसेनाके जीतनेको कमर बाँधी है ॥ ७९ ॥ आगे मुझसे मोहकी सेना कैसे जीती जावे, ऐसे उपायका
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org