SearchBrowseAboutContactDonate
Page Preview
Page 250
Loading...
Download File
Download File
Page Text
________________ ७५] प्रवचनसारः गम्यते, तदा तानि सुधाशनानामप्यवधि कृता समस्तसंसारिणां विषयतृष्णामवश्यमेव समुत्पादयन्ति । न खलु तृष्णामन्तरेण दुष्टशोणित इव जलूकानां समस्तसंसारिणां विषयेषु प्रवृत्तिरवलोक्यते, अवलोक्यते च सा । ततोऽस्तु पुण्यानां तृष्णायतनवमबाधितमेव ।। ७४ ॥ अथ पुण्यस्य दुःखबीजविजयमाघोषयति ते पुण उदिण्णतण्हा दुहिदा तण्हाहिं विसयसोक्खाणि । इच्छंति अणुभवंति य आमरणं दुक्खसंतत्ता ॥ ७५ ॥ ते पुनरुदीर्णतृष्णाः दुःखितास्तृष्णाभिर्विषयसौख्यानि । इच्छन्त्यनुभवन्ति च आमरणं दुःखसंतप्ताः ॥ ७५॥ अथ ते पुनस्त्रिदशावसानाः कृत्स्नसंसारिणः समुदीर्णतृष्णाः पुण्यनिर्वतिताभिरपि तृष्णाभिदुःखबीजतयाऽत्यन्तदुःखिताः सन्तो मृगतृष्णाभ्य इवाम्भांसि विषयेभ्यः सौख्यान्यभिलषन्ति। तदुःखसंतापवेगमसहमाना अनुभवन्ति च विषयान् जलयका इव, तावद्यावत् क्षयं यान्ति । विसयतण्हं जनयन्ति । काम् । विषयतृष्णाम् । केषाम् । जीवाणं देवदंताणं दृष्टश्रुतानुभूतभोगाकाङ्क्षारूपनिदानबन्धप्रभृतिनानामनोरथहयरूपविकल्पजालरहितपरमसमाधिसमुत्पन्नसुखामृतरूपां सर्वात्मप्रदेशेषु परमाह्लादोत्पत्तिभूतामेकाकारपरमसमरसीभावरूपां विषयाकाङ्क्षाग्निजनितपरमदाहविनाशिकां स्वरूपतृप्तिमलभमानानां देवेन्द्रप्रभृतिबहिर्मुखसंसारिजीवानामिति । इदमत्र तात्पर्यम्-यदि तथाविधा विषयतृष्णा नास्ति तर्हि दुष्टशोणिते जलयूका इव कथं ते विषयेषु प्रवृत्तिं कुर्वन्ति । कुर्वन्ति चेत् पुण्यानि तृष्णोत्पादकत्वेन दुःखकारणानि इति ज्ञायन्ते ।। ७४ ॥ अथ पुण्यानि दुःखकारणानीति पूर्वोक्तमेवार्थ विशेषेण समर्थयतिते पुण उदिण्णतण्हा सहजशुद्धात्मतृप्तेरभावात्ते निखिलसंसारिजीवाः पुनरुदीर्णतृष्णाः सन्तः दुहिदा तण्हाहिं स्वसंवित्तिसमुत्पन्नपारमार्थिकसुखाभावात्पूर्वोक्ततृष्णाभिर्दुःखिताः सन्तः । किं कुर्वन्ति । विसयसोक्खाणि इच्छंति निर्विषयपरमात्मसुखाद्विलक्षणानि विषयसुखानि इच्छन्ति । न केवलमिच्छन्ति अणुसब संसारी जीवोंके [विषयतृष्णां] विषयोंकी अत्यंत अभिलाषाको [जनयन्ति ] उत्पन्न करते हैं। भावार्थ-यदि शुभोपयोगसे अनेक तरह के पुण्य उत्पन्न होते हैं, तो भले ही उत्पन्न होवो, कुछ विशेषता नहीं है, क्योंकि वे पुण्य देवताओंसे लेकर सब संसारी जीवोंको तृष्णा उपजाते हैं, और जहाँ तृष्णा हैं, वहाँ ही दुःख है, क्योंकि तृष्णाके विना इन्द्रियोंके रूपादि विषयोंमें प्रवृत्ति ही नहीं होती। जैसे जोंक (जलका जंतुविशेष ) तृष्णाके विना विकारयुक्त (खराब ) रुधिरका पान नहीं करती, इसी प्रकार संसारी जीवोंकी विषयोंमें प्रवृत्ति तृष्णाके विना नहीं होती । इस कारण पुण्य तृष्णाका घर है ॥ ७४ ॥ आगे पुण्यको दुःखका बीज प्रगट करते हैं—[पुनः] उसके बाद [ उदीर्णतृष्णाः ] उठी है, तृष्णा जिनके तथा [तृष्णाभिः दुःखिता] अत्यंत अभिलाषासे पीड़ित और [दुःखसंतप्ताः ] दुःखोसे तप्तायमान [ ते ] वे देवों पर्यंत सब संसारी जीव [विषयसौख्यानि] इंद्रियोंके विषयोंसे उत्पन्न सुखोंको [आमरणं] मरण पर्यंत [इच्छन्ति ] चाहते हैं, [च] और Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003289
Book TitlePravachanasara
Original Sutra AuthorN/A
AuthorA N Upadhye
PublisherShrimad Rajchandra Ashram
Publication Year1964
Total Pages612
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy